.. श्री राम पूजा विधि ..
1 At the regular Altar
ॐ सर्वेभ्यो गुरुभ्यो नमः .
ॐ सर्वेभ्यो देवेभ्यो नमः .
ॐ सर्वेभ्यो ब्राह्मणेभ्यो नमः ..
प्रारम्भ कार्यम् निर्विघ्नमस्तु . शुभम् शोभनमस्तु .
इष्ट देवता कुलदेवता सुप्रसन्ना वरदा भवतु ..
अनुज्ञाम् देहि ..
At Shrii Raama Altar
२ आचमनः
ॐ केशवाय स्वाहा . ॐ नारायणाय स्वाहा .
ॐ माधवाय स्वाहा .
ॐ गोविन्दाय नमः . ॐ विष्णवे नमः .
ॐ मधुसूदनाय नमः . ॐ त्रिविक्रमाय नमः .
ॐ वामनाय नमः . ॐ धराय नमः .
ॐ हृषीकेशाय नमः . ॐ पद्मनाभाय नमः .
ॐ दामोदराय नमः . ॐ सङ्कर्षणाय नमः .
ॐ वासुदेवाय नमः . ॐ प्रद्युम्नाय नमः .
ॐ अनिरुद्धाय नमः . ॐ पुरुषोत्तमाय नमः .
ॐ अधोक्षजाय नमः . ॐ नारसिम्हाय नमः .
ॐ अच्युताय नमः . ॐ जनार्दनाय नमः .
ॐ उपेन्द्राय नमः . ॐ हरये नमः .
श्री कृष्णाय नमः ..
३ प्राणायामः
ॐ प्रणवस्य परब्रह्म रुषिः . परमात्मा देवता .
दैवी गायत्री छन्दः . प्राणायामे विनियोगः ..
ॐ भूः . ॐ भुवः . ॐ स्वः . ॐ महः .
ॐ जनः . ॐ तपः . ॐ सत्यम् .
ॐ तत्सवितुर्वरेण्यम् भर्गोदेवस्य धीमही
धियो यो नः प्रचोदयात् ..
(Repeat aachamana )
ॐ आपोज्योति रसोम्रुतम् ब्रह्म भूर्भुवस्सुवरों ..
४ सङ्कल्पः
ॐ मान् महागणाधिपतये नमः .
श्री गुरुभ्यो नमः . श्री सरस्वत्यै नमः .
श्री वेदाय नमः . श्री वेदपुरुषाय नमः .
इष्टदेवताभ्यो नमः . कुलदेवताभ्यो नमः .
स्थानदेवताभ्यो नमः . ग्रामदेवताभ्यो नमः .
वास्तुदेवताभ्यो नमः . शचीपुरन्दराभ्याम् नमः .
उमामहेश्वराभ्याम् नमः . मातापित्रुभ्याम् नमः .
लक्ष्मि नारायणाभ्याम् नमः .
सर्वेभ्यो देवेभ्यो नमो नमः .
सर्वेभ्यो ब्राह्मणेभ्यो नमो नमः .
येतद्कर्मप्रधान देवताभ्यो नमो नमः ..
.. अविघ्नमस्तु ..
सुमुखश्च एकदन्तश्च कपिलो गजकर्णकः .
लम्बोदरश्च विकटो विघ्ननाशो गणाधिपः ..
धूम्रकेतुर्गणाध्यक्षो बालचन्द्रो गजाननः .
द्वादशैतानि नामानि यः पठेत् श्रुणुयादपि ..
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा .
सङ्ग्रामे सङ्कटेश्चैव विघ्नः तस्य न जायते ..
शुक्लाम्बरधरम् देवम् शशिवर्णम् चतुर्भुजम् .
प्रसन्नवदनम् ध्यायेत् सर्व विघ्नोपशान्तये ..
सर्वमङ्गल माङ्गल्ये शिवे सर्वार्थ साधिके .
शरण्ये त्र्यम्बके देवी नारायणी नमोस्तुते ..
सर्वदा सर्व कार्येषु नास्ति तेषाम् अमङ्गलम् .
येषाम् हृदिस्थो भगवान् मङ्गलायतनो हरिः ..
तदेव लग्नम् सुदिनम् तदेव ताराबलम् चन्द्रबलम् तदेव .
विद्या बलम् दैवबलम् तदेव जानकिपतेः तेङ्घ्रियुगम् स्मरामि ..
लाभस्तेषाम् जयस्तेषाम् कुतस्तेषाम् पराजयः .
येषाम् इन्दीवर श्यामो हृदयस्थो जनार्दनः ..
विनायाकम् गुरुम् भानुम् ब्रह्माविष्णुमहेश्वरान् .
सरस्वतीम् प्रणम्यादौ सर्व कार्यार्थ सिद्धये ..
मद् भगवतो महापुरुषस्य विष्णोराज्ञाय प्रवर्तमानस्य
अद्य ब्रह्मणोद्वितीय परार्धे विष्णुपदे श्री श्वेतवराह कल्पे
वैवस्वत मन्वन्तरे भारत वर्षे भरत खण्डे जम्बूद्वीपे
दण्डकारण्य देशे गोदावर्या दक्षिणे तीरे कृष्णवेण्यो उत्तरे
तीरे परशुराम क्षेत्रे ( सम्युक्त अमेरिका देशे or Australia देशे
Victoria ग्रामे बहरीनु देशे) शालिवाहन शके वर्तमाने
व्यवहारिके भहु धान्य नाम सम्वत्सरे उत्तरायणे वसन्त रुतौ,
चैत्र मासे, शुक्ल पक्षे, नवम्याम् तिथौ, पुनर्वसु नक्षत्रे,
रवि वासरे सर्व ग्रहेषु यथा राशि स्थान स्थितेषु सत्सु
येवम् गुणविशेषेण विशिष्टायाम् शुभपुण्यतिथौ मम आत्मन
श्रुतिस्म्रुतिपुराणोक्त फलप्राप्यर्थम् मम सकुटुम्बस्य
क्षेम स्थैर्य आयुरारोग्य चतुर्विध पुरुषार्थ सिध्यर्थम्
अङ्गीकृत श्री रामनवमि व्रताङ्गत्वेन सम्पादित सामग्रय्य
श्री रामचन्द्रप्रीत्यर्थम् यथा शक्त्या यथा मिलितोपचार
द्रव्यैः पुरुषसूक्त सूक्त विष्णुसूक्त पुराणोक्त
मन्त्रैश्च ध्यानावाहनादि षोडशोपचारे
श्री रामचन्द्रपूजनम् करिष्ये ..
इदम् फलम् मयादेव स्थापितम् पुरतस्तव .
तेन मे सफलावाप्तिर्भवेत् जन्मनिजन्मनि..
(keep fruits in front of the Lord)
५ षडङ्ग न्यास
(touching various parts of the body)
ॐ रामाय नमः
अङ्गुष्ठाभ्यायाम् नमः . (touch the thumbs)
हृदयाय नमः ..
ॐ रामभद्राय नमः
तर्जनीभ्याम् नमः . (touch both fore fingers)
शिरसे स्वाहा ..
ॐ रामचन्द्राय नमः
मध्यमाभ्याम् नमः . (touch middle fingers)
शिखायै वौषट् ..
राघवाय नमः
अनामिकाभ्याम् नमः . (touch ring fingers)
कवचाय हुम् ..
रघुपुङ्गवाय नमः
कनिष्ठिकाभ्याम् नमः . (touch little fingers)
नेत्रत्रयाय वौषट् ..
जानकि वल्लभाय नमः
करतलकरप्रुष्ठाभ्यायाम् नमः . अस्त्राय फट् ..
(snap fingers circle head clockwise and clap hands)
६ दिग्बन्धन
( show mudras)
ॐ राम भद्रे इति दिग्बन्धः . दिशो बद्नामि ..
७ गणपति पूजा
आदौ निर्विघ्नतासिध्यर्थम् महा गणपतिम् पूजनम् करिष्ये .
ॐ गणानाम् त्वा शौनको ग्रुत्समदो गणपतिर्जगति
गणपत्यावाहने विनियोगः ..
(pour water)
ॐ गणानाम् त्वा गणपतिम् आवामहे .
कविम् कविनामुपम श्रवस्तमम् .
ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत .
आनः शृण्वन् नूतिभिः सीदसादनम् ..
भूः गणपतिम् आवाहयामि .
भुवः गणपतिम् आवाहयामि .
स्वः गणपतिम् आवाहयामि .
ॐ भूर्भुवस्वः महागणपतये नमः .
ध्यायामि . ध्यानम् समर्पयामि .
ॐ महागणपतये नमः . आवाहनम् समर्पयामि .
ॐ महागणपतये नमः . आसनम् समर्पयामि .
ॐ महागणपतये नमः . पाद्यम् समर्पयामि .
ॐ महागणपतये नमः . अर्घ्यम् समर्पयामि .
ॐ महागणपतये नमः . आचमनीयम् समर्पयामि .
ॐ महागणपतये नमः . स्नानम् समर्पयामि .
ॐ महागणपतये नमः . वस्त्रम् समर्पयामि .
ॐ महागणपतये नमः . यञ्योपवीतम् समर्पयामि .
ॐ महागणपतये नमः . चन्दनम् समर्पयामि .
ॐ महागणपतये नमः . परिमल द्रव्यम् समर्पयामि .
ॐ महागणपतये नमः . पुष्पाणि समर्पयामि .
ॐ महागणपतये नमः . धूपम् समर्पयामि .
ॐ महागणपतये नमः . दीपम् समर्पयामि .
ॐ महागणपतये नमः . नैवेद्यम् समर्पयामि .
ॐ महागणपतये नमः . ताम्बूलम् समर्पयामि .
ॐ महागणपतये नमः . फलम् समर्पयामि .
ॐ महागणपतये नमः . दक्षिणाम् समर्पयामि .
ॐ महागणपतये नमः . आर्तिक्यम् समर्पयामि .
ॐ भूर्भुवस्वः महागणपतये नमः .
मन्त्रपुष्पम् समर्पयामि .
ॐ भूर्भुवस्वः महागणपतये नमः .
प्रदक्षिणा नमस्कारान् समर्पयामि .
ॐ भूर्भुवस्वः महागणपतये नमः .
छत्रम् समर्पयामि .
ॐ महागणपतये नमः . चामरम् समर्पयामि .
ॐ महागणपतये नमः . गीतम् समर्पयामि .
ॐ महागणपतये नमः . न्रुत्यम् समर्पयामि .
ॐ महागणपतये नमः . वाद्यम् समर्पयामि .
ॐ महागणपतये नमः . सर्व राजोपचारान् समर्पयामि ..
.. अथ प्रार्थना ..
ॐ वक्रतुण्ड महाकाय कोटि सूर्य समप्रभ .
निर्विघ्नम् कुरु मे देव सर्व कार्येषु सर्वदा ..
ॐ भूर्भुवस्वः महागणपतये नमः . प्रार्थनाम् समर्पयामि .
अनया पूजया विघ्नहर्ता महागणपति प्रियताम् ..
८ दीप स्थापना
अथ देवस्य वाम भागे दीप स्थापनम् करिष्ये .
अग्निनाग्नि समिध्यते कविर्ग्रहपतिर्युवा हव्यवात् जुवास्यः ..
(light the lamps)
९ भूमि प्रार्थना
महिद्यौ प्रुथ्वीचन इमम् यज्ञम् मिमिक्षताम्
पिप्रतान्नो भरीमभिः ..
१० धान्य राशि
ॐ औषधाय सम्वदन्ते सोमेन सहराज्ञ .
यस्मै कृणेति ब्राह्मणस्थम् राजन् पारयामसि ..
(Touch the grains/rice/wheat)
११ कलश स्थापना
ॐ आ कलशेषु धावति पवित्रे परिसिञ्च्यते
उक्तैर्यज्ञेषु वर्धते ..
(keep kalasha on top of rice pile)
ॐ इमम् मे गङ्गे यमुने सरस्वती शुतुद्रिस्तोमम् सचता परुष्ण्य .
असिक्न्य मरुद्व्रुधे वितस्थयार्जीकीये शृणुह्या सुषोमय ..
(fill kalasha with water)
ॐ गन्धद्वाराम् धुरादर्शाम् नित्य पुष्पाम् करीषिणीम् .
ईश्वरीम् सर्व भूतानाम् तामि होपह्वयेश्रियम् ..
(sprinkle in/apply ga.ndha to kalasha)
ॐ या फलिनीर्या अफला अपुष्पायाश्च पुष्पाणि .
ब्रुहस्पति प्रसोतास्थानो मञ्चत्वम् हसः ..
(put beetle nut in kalasha)
ॐ सहिरत्नानि दाशुषेसुवाति सविता भगः .
तम्भागम् चित्रमीमहे ..
(put jewels / washed coin in kalasha)
ॐ हिरण्यरूपः हिरण्य सन्द्रिग्पान्न पात्स्येदु हिरण्य वर्णः .
हिरण्ययात् परियोनेर्निषद्या हिरण्यदाददत्थ्यन् नमस्मै ..
(put gold / dakShina in kalasha)
ॐ काण्डात् काण्डात् परोहन्ति परुषः परुषः परि एवानो दूर्वे
प्रतनु सहस्रेण शतेन च ..
(put duurva / karika )
ॐ अश्वत्थेवो निशदनम् पर्णेवो वसतिश्कृत .
गो भाज इत्किला सथयत्स नवथ पूरुषम् ..
(put five leaves in kalasha)
ॐ युवासुवासः परीवीतागात् स उश्रेयान् भवति जायमानः .
तम् धीरासः कावयः उन्नयन्ति स्वाद्ध्यो स्वाद्ध्यो मनसा देवयन्तः..
(tie cloth for kalasha)
ॐ पूर्णादर्वि परापत सुपूर्णा पुनरापठ .
वस्नेव विक्रीणावः इषमूर्जम् शतकृतो ..
(copper plate and aShTadala with ku.nkuM)
इति कलशम् प्रतिष्ठापयामि ..
सकल पूजार्थे अक्षतान् समर्पयामि ..
१२ वरुण पूजन
on the second kalasha)
तत्वायामि शुनः शेपोः वरुण त्रिष्टुप् कलशे
वरुणावाहने विनियोगः ..
ॐ तत्वायामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः .
आहेलमानो वरुणः बोध्युरुशम् समान आयुः प्रमोषिः ..
ॐ भूर्भुवःस्वः वरुणाय नमः . चन्दनम् समर्पयामि ..
(add to kalasha)
ॐ भूर्भुवःस्वः . वरुणाय नमः . अक्षतान् समर्पयामि ..
(add to kalasha)
ॐ भूर्भुवःस्वः . वरुणाय नमः . हरिद्रा कुम्कुमम् समर्पयामि ..
ॐ भूर्भुवःस्वः . वरुणाय नमः . धूपम् समर्पयामि ..
ॐ भूर्भुवःस्वः . वरुणाय नमः . दीपम् समर्पयामि ..
ॐ भूर्भुवःस्वः . वरुणाय नमः . नैवेद्यम् समर्पयामि ..
ॐ भूर्भुवःस्वः . वरुणाय नमः .
सकल राजोपचारार्थे अक्षतान् समर्पयामि ..
अवते हेळो वरुण नमोभिरिव यज्ञेभिरीमहे हविर्भिः .
क्षयम् नमस्मभ्यम् सुरप्रचेता राजन्नेनाम्सि शिश्रथः कृतानि ..
वरुणाय नमः . मन्त्र पुष्पम् समर्पयामि ..
प्रदक्षिणा नमस्कारान् समर्पयामि ..
अनया पूजया भगवान् श्री महा वरुण प्रियताम् ..
सकल पूजार्थे अक्षतान् समर्पयामि ..
१३ कलश पूजन
(continue with second kalasha)
कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः .
मूले तत्र स्थितो ब्रह्म मध्ये मात्रुगणाः स्म्रुताः ..
कुक्षौतु सागराः सर्वे सप्त द्वीपा वसुन्धराः .
रुग्वेदोथ यजुर्वेदः सामवेदोह्यथर्वणः ..
अङ्गैश्च सहिताः सर्वे कलशन्तु समाश्रिताः .
अत्र गायत्री सावित्री शान्ति पुष्टिकरी तथा ..
आयान्तु देव पूजार्थम् अभिषेकार्थ सिद्धये ..
ॐ सितासिते सरिते यत्र सङ्गधे तत्राप्लुतासो दिवमुत्पतन्ति .
ये वैतन्वम् विस्रजन्ति धीरास्ते जनासो अम्रुतत्त्वम् भजन्ति ..
.. कलशः प्रार्थनाः ..
कलशः कीर्तिमायुष्यम् प्रज्ञाम् मेधाम् श्रियम् बलम् .
योग्यताम् पापहानिम् च पुण्यम् व्रुद्धिम् च साधयेत् ..
सर्व तीर्थमयो यस्मात् सर्व देवमयो यतः .
अथः हरिप्रियोसि त्वम् पूर्णकुम्भम् नमोस्तुते ..
कलशदेवताभ्यो नमः .
सकल पूजार्थे अक्षतान् समर्पयामि ..
.. मुद्रा ..
(Show mudras as you chant )
निर्वीषि करणार्थे तार्क्ष मुद्रा .
अम्रुति करणार्थे धेनु मुद्रा .
पवित्री करणार्थे शङ्ख मुद्रा .
सम्रक्षणार्थे चक्र मुद्रा .
विपुलमाया करणार्थे मेरु मुद्रा .
१४ शङ्ख पूजन
(pour water froM kalasha to sha.nkha
add ga.ndha flower)
शङ्खम् चन्द्रार्क दैवतम् मध्ये वरुण देवताम् .
प्रुष्ठे प्रजापतिम् विन्द्याद् अग्रे गङ्गा सरस्वतीम् ..
त्वम् पुरा सागरोत्पन्नो विष्णुना विध्रुतः करे .
नमितः सर्व देवैश्च पाञ्चजन्यम् नमोस्तुते ..
पाञ्चजन्याय विद्महे . पावमानाय धीमहि .
तन्नो शङ्खः प्रचोदयात् ..
शङ्ख देवताभ्यो नमः .
सकल पूजार्थे अक्षतान् समर्पयामि..
१५ घण्टार्चना
(Pour drops of water froM sha.nkha on top of the bell
apply ga.ndha flower)
आगमार्थन्तु देवानाम् गमनार्थन्तु राक्षसाम् .
कुरु घण्टारवम् तत्र देवतावाहन लान्छनम् ..
ज्ञानथोज्ञानतोवापि कान्स्य घण्टान् नवादयेत् .
राक्षसानाम् पिशाचानाम् तद्देशे वसतिर्भवेत् .
तस्मात् सर्व प्रयत्नेन घण्टा नादम् प्रकारयेत् .
घण्ट देवताभ्यो नमः .
सकल पूजार्थे अक्षतान् समर्पयामि ..
(Ring the gha.nTaa)
१६ आत्मशुद्धि
( Sprinkle water froM sha.nkha
on puja items and devotees)
अपवित्रो पवित्रो वा सर्व अवस्थाङ्गतोपि वा .
यः स्मरेत् पुण्डरीकाक्षम् सः बाह्याभ्यन्तरः शुचिः ..
१७ षट् पात्र पूजा
( put tulasi leaves or akShatAs in empty vessels)
वायव्ये अर्घ्यम् . नैरुत्ये पाद्यम् .
ईशान्ये आचमनीयम् . आग्नेये मधुपर्कम् .
पूर्वे स्नानीयम् . पश्चिमे पुनराचमनम् .
१८ पञ्चाम्रुत पूजा
( put tulasi leaves or akShataas in vessels )
क्षीरे सोमाय नमः (keep milk in the centre)
दधिनि वायवे नमः (curd facing east )
घृते रवये नमः (Ghee to the south)
मधुनि सवित्रे नमः ( Honey to west )
शर्करायां विश्वेभ्यो देवेभ्यो नमः ( Sugar to north)
१९ द्वारपालक पूजा
पूर्वद्वारे द्वारश्रियै नमः . हनुमते नमः .
दक्षिणद्वारे द्वारश्रियै नमः . लक्ष्मणाय नमः .
पश्चिमद्वारे द्वारश्रियै नमः .भरताय नमः .
उत्तरद्वारे द्वारश्रियै नमः .शत्रुघ्ने नमः .
मध्ये नवरत्नखचित दिव्यसिन्हासनस्योपरि
श्री जानकी पतये नमः ..
द्वारपालक पूजाम् समर्पयामि ..
२० पीठ पूजा
पीठस्य अधोभागे आधार शक्त्यै नमः .. कूर्माय नमः ..
दक्षिणे क्षीरोदधिये नमः .. सिन्हाय नमः ..
सिन्हासनस्य आग्नेय कोणे वराहाय नमः ..
नैरुत्य कोणे ज्ञानाय नमः .. वायव्य कोणे वैराग्याय नमः ..
ईशान्य कोणे ऐश्वर्याय नमः .. पूर्व दिशे धर्माय नमः ..
दक्षिण दिशे ज्ञानाय नमः .. पश्चिम दिशे वैराग्याय नमः ..
उत्तर दिशे अनैश्चराय नमः .. पीठ मध्ये मूलाय नमः ..
नालाय नमः .. पत्रेभ्यो नमः .. केसरेभ्यो नमः ..
कर्णिकायै नमः .. कर्णिका मध्ये सम् सत्त्वाय नमः ..
रम् रजसे नमः .. तम् तमसे नमः ..
सूर्यमण्डलाय नमः .. सूर्यमण्डलाधिपतये ब्रह्मणे नमः ..
सोममण्डलाय नमः .. सोममण्डलाधिपतये विष्णवे नमः ..
वह्निमण्डलाय नमः .. वह्निमण्डलाधिपतये ईश्वराय नमः ..
श्री रामचन्द्राय नमः . पीठ पूजाम् समर्पयामि ..
२१ दिग्पालक पूजा
(Start froM east of kalasha or deity)
इन्द्राय नमः .. अग्नये नमः .. यमाय नमः ..
नैरुतये नमः .. वरुणाय नमः .. वायव्ये नमः ..
कुबेराय नमः .. ईशानाय नमः ..
इति दिग्पालक पूजाम् समर्पयामि ..
२२ प्राण प्रतिष्ठा
(hold flowers/akShata in hand)
ध्यायेत् सत्यम् गुणातीतम् गुणत्रय समन्वितम्
लोकनाथम् त्रिलोकेशम् कौस्तुभाभरणम् हरिम् .
नीलवर्णम् पीतवासम् वत्स पदभूषितम्
गोकुलानन्दम् ब्रह्माध्यैरपि पूजितम् ..
(hold flowers/akShataa in hand)
ॐ अस्य श्री रामचन्द्र प्राण प्रतिष्ठापन महा मन्त्रस्य
ब्रह्मा विष्णु महेश्वरा रुषयः
रुग् यजुर्सामाथर्वाणि छन्दान्सि . प्राण शक्तिः .
परा देवता . ह्राम् बीजम् . ह्रीम् शक्तिः . क्रों कीलकम् .
मम श्री रामचन्द्र प्राण प्रतिष्ठ सिद्ध्यर्थे जपे विनियोगः ..
.. करन्यासः ..
आम् अङ्गुष्ठाभ्याम् नमः .. ह्रीम् तर्जनीभ्याम् नमः ..
क्रों मध्यमाभ्याम् नमः .. आम् अनामिकाभ्याम् नमः ..
ह्रीम् कनिष्ठिकाभ्याम् नमः .. क्रों करतलकरप्रुष्ठाभ्याम् नमः ..
.. अङ्गन्यासः ..
आम् हृदयाय नमः .. ह्रीम् शिरसे स्वाहा ..
क्रों शिखायै वौषट् .. आम् कवचाय हुम् ..
ह्रीम् नेत्रत्रयायवौषट् .. क्रौम् अस्त्राय फट् ..
भूर्भुवस्वरों ..
आम् ह्रीम् क्रौम् क्रौम् ह्रीम् आम्
य र ल व श ष स ह
ॐ अहम् सः सोहम् सोहम् अहम् सः .
अस्याम् मूर्ते प्राणः तिष्ठन्तुः . अस्याम् मूर्ते जीवः तिष्ठन्तु .
अस्याम् मूर्ते सर्वेन्द्रियाणि मनस्त्वत् चक्षुः
श्रोत्र जिह्वा घ्राणैः वाक्वाणि पादपायोपस्थानि
प्राण अपान व्यान उदान समान अत्रागत्य
सुखेन स्थिरम् तिष्ठन्तु स्वाहा .
असुनीते पुनरस्मासु चक्षुवः पुनः प्राणमिहीनो
देहिभोगम् जोक्षश्येम सूर्यमुच्चरन्तु मनुमते
म्रुडयान स्वस्ति अम्रुतम् वै प्राणा अम्रुतमापः प्राणानेव
यथा स्थानम् उपह्वयेत् ..
स्वामिन् सर्व जगन्नाथ यावत्पूजावसानकम्
तावत्व प्रीतिभावेन बिम्बेस्मिन् कलशेस्मिन्
प्रतिमायाम् सन्निधिम् कुरु ..
२३ ध्यानं
ॐ ॐ (repeat 15 times)
कोमलाङ्गं विशालाक्षं इन्द्रनील समप्रभम्
दक्षिणाङ्गे दशरतं पुत्राप्येक्षेण तत्परम्
प्रष्टतो लक्षणं देवं सछत्रं कनक प्रभम्
पार्श्वे भरत शत्रुघ्न, चामर व्यजनान्वितौ
अग्रेत्यग्रौ हनूमन्तं रामानुग्र कान्क्षिणम्
(you can add more related shlokas)
२४ आवाहनम्
( hold flowers in hand)
ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् .
स भूमिम् विश्वतो व्रुत्वा अत्यतिष्ठद् दशाङ्गुलम् ..
विश्वेशं जानकी वल्लभ प्रभु
कौसल्या तनयं विष्णुं रामं प्रक्रतेः परं
आगच्छ देवदेवेश तेजोराशे जगत्पते .
क्रियमाणाम् मया पूजाम् ग्रुहाण सुरसत्तमे ..
श्री रामागच्छ भगवन् रघुवीर न्रुपोत्तम
जानकि सह राजेन्द्र सुस्तिरो भव सर्वदा
रामचन्द्र महेश्वास रावणान्तक राघव
यावत् पूजं समासेहं तावत्वां सन्निदा भव
रघुनायक राजर्शे नमो राजीवलोचन
रघुनन्दन मे देव, श्री रामाभिमुखो भव
श्री सीता सहित, श्री रामचन्द्राय
साङ्गाय, सपरिवाराय, सायुधाय,
सशक्तिकाय नमः .
श्री सीता सहित श्री रामचन्द्रम् साङ्गम्
सपरिवारम् सायुधम् सशक्तिकम् आवाहयामि ..
(offer flowers to Lord)
आवाहितो भव . स्थापितो भव . सन्निहितो भव .
सन्निरुद्धो भव . अवकुण्ठिथो भव . सुप्रीतो भव .
सुप्रसन्नो भव . सुमुखो भव . वरदो भव .
प्रसीद प्रसीद ..
(show mudras to Lord)
२५ आसनम्
पुरुष एवेदगम् सर्वम् यद् भूतम् यच्छ भव्यम् .
उताम्रुतत्वस्येशानः यदन्नेनातिरोहति ..
राजाधिराज राजेन्द्र रामचन्द्र महीपते
रत्न सिम्हासनं तुभ्यं दास्यामि स्वीकुरु प्रभो
ॐ श्री रामचन्द्राय नमः . आसनम् समर्पयामि ..
(offer flowers/akShathaas)
ताम् म आवह जातवेदो लक्ष्मी मनपगामिनीम् .
यस्याम् हिरण्यम् विन्देयम् गामश्वम् पुरुषानहम् ..
आसनम् समर्पयामि ..
२६ पाद्यम्
(offer water)
एतावानस्य महिमा अतो ज्यायागन्श्च पूरुषः .
पादोस्य विश्वा भूतानि त्रिपादस्याम्रुतम् दिवि ..
त्रैलोक्य पावनानन्त नमस्ते रघुनायक
पाद्यं ग्रुह्ण राजर्शे नमो राजीव लोचन
ॐ श्री रामचन्द्राय नमः . पादोयो पाद्यम् समर्पयामि ..
अश्वपूर्वाम् रथमध्याम् हस्तिनादप्रमोदिनीम् .
श्रियम् देवीमुपह्वये र्मा देवी जुषताम् ..
पादोयो पाद्यम् समर्पयामि ..
२७ अर्घ्यम्
(offer water)
त्रिपादूर्ध्व उदैत्पुरुषः पादोस्येहाभवात्पुनः .
ततो विश्वङ्व्यक्रामत् साशनानशने अभि ..
परिपूर्ण परानन्द नमो रामाय वेधसे
ग्रुहाणार्घ्यम् मया दत्तम् कृष्ण विष्णो जनार्दन
ॐ श्री रामचन्द्राय नमः . अर्घ्यम् समर्पयामि ..
काम्सोस्मि ताम् हिरण्यप्राकारामार्द्राम् ज्वलन्तीम् त्रुप्ताम् तर्पयन्तीम् .
पद्मेस्थिताम् पद्मवर्णाम् तामिहोपह्वये श्रियम् ..
अर्घ्यम् समर्पयामि ..
२८ आचमनीयम्
(offer water or akShathaa/ leave/flower)
तस्माद्विराडजायत विराजो अधि पूरुषः .
स जातो अत्यतिच्यत पश्चाद् भूमितथो पुरः ..
नमः सत्याय शुद्धाय नित्याय ञ्यान रूपिणे
ग्रुहाणाचमनं राम सर्व लोकैक नायक
ॐ श्री रामचन्द्राय नमः . आचमनीयम् समर्पयामि ..
चन्द्राम् प्रभासाम् यशसा ज्वलन्तीम् श्रियम् लोके देवजुष्टामुदाराम् .
ताम् पद्मिनीमीम् शरणमहम् प्रपद्ये अलक्ष्मीर्मे नश्यताम् त्वाम् व्रुणे ..
आचमनीयम् समर्पयामि ..
२९ मधुपर्कम्
नमः श्री वासुदेवाय तत्वज्ञान स्वरूपिणे
मधुपर्कं ग्रुहाणेदं जानकीपतये नमः
ॐ श्री रामचन्द्राय नमः . मधुपर्कं समर्पयामि
३० स्नानम्
यत्पुरुषेण हविषा देवा यज्ञमतन्वत .
वसन्तो अस्यासीदाज्यम् ग्रीष्म इध्मश्शरद्धविः ..
ब्रह्माण्डोदर मध्यस्तै स्तितैस्च रघुनन्दन
स्नापयिश्याम्यहं भक्त्या त्वं ग्रुह्ण जनार्दना
ॐ श्री रामचन्द्राय नमः . मलापकर्श स्नानम् समर्पयामि ..
आदित्यवर्णे तपसोधिजातो वनस्पतिस्तव व्रुक्षोथ बिल्वः .
तस्य फलानि तपसानुदन्तुमायान्तरायाश्च बाह्या अलक्ष्मीः ..
स्नानम् समर्पयामि ..
३०. १ पञ्चाम्रुत स्नानम्
३०. १. १ पयः स्नानम् (milk bath)
ॐ आप्याय स्व स्वसमेतुते
विश्वतः सोमव्रुष्ण्यम् भवावाजस्य सङ्गधे ..
सुरभेस्तु समुत्पन्नम् देवानाम् अपि दुर्लभम् .
पयो ददामि देवेश स्नानार्थम् प्रतिग्रुह्यताम् ..
ॐ श्री रामचन्द्राय नमः . पयः स्नानम् समर्पयामि ..
पयः स्नानानन्तर शुद्धोदक स्नानम् समर्पयामि ..
सकल पूजार्थे अक्षतान् समर्पयामि ..
३०. १. २ दधि स्नानम् (curd bath)
ॐ दधिक्रावणो अकारिषम् जिष्णोरश्वस्यवाजिनः .
सुरभिनो मुखाकरत् प्राण आयुन्षितारिषत् ..
चन्द्र मण्डल सम्काशम् सर्व देव प्रियम् हि यत् .
दधि ददामि देवेश स्नानार्थम् प्रतिग्रुह्यताम् ..
ॐ श्री रामचन्द्राय नमः . दधि स्नानम् समर्पयामि ..
दधि स्नानानन्तर शुद्धोदक स्नानम् समर्पयामि ..
सकल पूजार्थे अक्षतान् समर्पयामि ..
३०. १. ३ घृत स्नानम् (ghee bath)
ॐ घृतम् मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतम्वस्यधाम
अनुष्ठधमावह मादयस्व स्वाहाकृतम् व्रुषभ वक्षिहव्यम् ..
आज्यम् सुरानाम् आहारम् आज्यम् यज्ञे प्रतिष्ठितम् .
आज्यम् पवित्रम् परमम् स्नानार्थम् प्रतिग्रुह्यताम् ..
ॐ श्री रामचन्द्राय नमः . घृत स्नानम् समर्पयामि ..
घृत स्नानानन्तर शुद्धोदक स्नानम् समर्पयामि ..
सकल पूजार्थे अक्षतान् समर्पयामि ..
३०. १. ४ मधु स्नानम् (honey bath)
ॐ मधुवाता रुतायथे मधुक्षरन्ति सिन्धवः माध्विनः सन्तोष्वधीः
मधुनक्ता मुथोषसो मधुमत्वार्थिवम् रजः मधुद्यौ रस्तुनः पिता
मधुमान्नो वनस्पतिर्मधुमाम् अस्तु सूर्यः माध्वीर्गावो भवन्तुनः ..
सर्वौषधि समुत्पन्नम् पीयूष सद्रुशम् मधु .
स्नानर्तन्ते मया दत्तम् ग्रुहाण परमेश्वर ..
ॐ श्री रामचन्द्राय नमः . मधु स्नानम् समर्पयामि ..
मधु स्नानानन्तर शुद्धोदक स्नानम् समर्पयामि ..
सकल पूजार्थे अक्षतान् समर्पयामि ..
३०. १. ५ शर्करा स्नानम् (sugar bath)
ॐ स्वादुः पवस्य दिव्याय जन्मने स्वादुदरिन्द्राय सुहवीतु नाम्ने .
स्वादुर्मित्राय वरुणाय वायवे ब्रुहस्पतये मधुमा अदाभ्यः ..
इक्षु दण्डात् समुत्पन्ना रस्यस्निग्ध तरा शुभा .
शर्करेयम् मया दत्ता स्नानार्थम् प्रतिग्रुह्यताम् ..
ॐ श्री रामचन्द्राय नमः . शर्करा स्नानम् समर्पयामि ..
शर्करा स्नानानन्तर शुद्धोदक स्नानम् समर्पयामि ..
सकल पूजार्थे अक्षतान् समर्पयामि ..
३०. २ गन्धोदक स्नानम् (Sandlewood water bath)
ॐ गन्धद्वाराम् दुराधर्शाम् नित्य पुष्पाम् करीषिणीम् .
ईश्वरीम् सर्व भूतानाम् तामि होप व्हयेश्रियम् ..
हरि चन्दन सम्भूतम् हरि प्रीतिश्च गौरवात् .
सुरभि प्रिय गोविन्द गन्ध स्नानाय ग्रुह्यताम् ..
ॐ श्री रामचन्द्राय नमः . गन्धोदक स्नानम् समर्पयामि ..
सकल पूजार्थे अक्षतान् समर्पयामि ..
३०. ३ अभ्यङ्ग स्नानम् (Perfumed oil bath)
ॐ कनिक्रदज्वनुशम् प्रभ्रुवान इयथिर्वाचमरितेव नावम् .
सुमङ्गलश्च शकुने भवासि मात्वा काचिदभिभाविश्व्या विदत ..
अभ्यङ्गार्थम् महीपाल तैलम् पुष्पादि सम्भवम् .
सुगन्ध द्रव्य सम्मिश्रम् सङ्ग्रुहाण जगत्पते ..
ॐ श्री रामचन्द्राय नमः . अभ्यङ्ग स्नानम् समर्पयामि.
सकल पूजार्थे अक्षतान् समर्पयामि ..
३०. ४ अङ्गोद्वर्तनकम् (To clean the body)
अङ्गोद्वर्तनकम् देव कस्तूर्यादि विमिश्रितम् .
लेपनार्थम् ग्रुहाणेदम् हरिद्रा कुङ्कुमैर्युतम् ..
ॐ श्री रामचन्द्राय नमः . अङ्गोद्वर्तनम् समर्पयामि ..
सकल पूजार्थे अक्षतान् समर्पयामि ..
३०. ५ उष्णोदक स्नानम् (Hot water bath)
नाना तीर्थादाहृतम् च तोयमुष्णम् मयाकृतम् .
स्नानार्थम् च प्रयश्चामि स्वीकुरुश्व दयानिधे ..
ॐ श्री रामचन्द्राय नमः . उष्णोदक स्नानम् समर्पयामि ..
सकल पूजार्थे अक्षतान् समर्पयामि ..
३०. ६ शुद्धोदक स्नानम् (Pure water bath)
sprinkle water all around
ॐ आपोहिष्टा मयो भुवः . तान ऊर्जे दधातन .
महीरणाय चक्षसे . योवः शिवतमोरसः तस्यभाजयते हनः .
उशतीरिव मातरः . तस्मात् अरङ्गमामवो , यस्य क्षयाय जिन्वध .
आपो जन यथाचनः ..
ॐ श्री रामचन्द्राय नमः . शुद्धोदक स्नानम् समर्पयामि ..
सकल पूजार्थे अक्षतान् समर्पयामि ..
(after sprinkling water around throw one tulasi leaf to the north)
३१ महा अभिषेकः
( Sound the bell pour water froM kalasha)
३१. १ पुरुष सूक्त
सहस्र शीर्षा पुरुषः सहस्राक्षः सहस्रपात् .
स भूमिम् विश्वतो व्रुत्वात्यतिष्ठद् दशाङ्गुलम् .. ०१ ..
पुरुष एवेदम् सर्वम् यद् भूतम् यच् च भव्यम् .
उताम्रुतत्वस्येशानो यदन्नेनातिरोहति .. ०२ ..
एतावान् अस्य महिमातो ज्यायाम्श् च पूरुषः .
पादो स्य विश्वा भूतानि त्रिपाद् अस्याम्रुतम् दिवि .. ०३ ..
त्रिपाद् ऊर्ध्व उद् ऐत् पुरुषः पादो स्येहाभवत् पुनः .
ततो विष्वन् व्यक्रामत् साशनानशने अभि .. ०४ ..
तस्माद् विराड जायत विराजो अधि पूरुषः .
स जातो अत्यरिच्यत पश्चाद् भूमिम् अथो पुरः .. ०५ ..
यत् पुरुषेण हविषा देवा यज्ञम् तन्वत .
वसन्तो अस्यासीद् आज्यम् ग्रीष्म इध्मः शरद् धविः .. ०६ ..
तम् यज्ञम् बर्हिषि प्रौक्षन् पुरुषम् जातम् अग्रतः .
तेन देवा अयजन्त साध्या रुषयश् च ये .. ०७ ..
तस्माद् यज्ञात् सर्वहुतः सम्भृतम् प्रुषदाज्यम् .
पशून् ताम्श् चक्रे वायव्यान् आरण्यान् ग्राम्याश् च ये .. ०८ ..
तस्माद् यज्ञात् सर्वहुत रुचः सामानि जज्ञिरे .
छन्दाम्सि जज्ञिरे तस्माद् यजुस् तस्माद् अजायत .. ०९ ..
तस्माद् अश्वा अजायन्त ये के चोभयादतः .
गावो ह जज्ञिरे तस्मात् तस्माज् जाता अजावयः .. १० ..
यत् पुरुषम् व्यदधुः कतिधा व्यकल्पयन् .
मुखम् किम् अस्य कौ बाहू का ऊरू पादा उच्येते .. ११ ..
ब्राह्मणो स्य मुखम् आसीद् बाहू राजन्यः कृतः .
ऊरू तदस्य यद् वैश्यः पद्भ्याम् शूद्रो अजायत .. १२ ..
चन्द्रमा मनसो जातश् चक्षोः सूर्यो अजायत .
मुखाद् इन्द्रश् चाग्निश् च प्राणाद् वायुर् अजायत .. १३ ..
नाभ्या आसीद् अन्तरिक्षम् शीर्ष्णो द्यौः सम् अवर्तत .
पद्भ्याम् भूमिर् दिशः श्रोत्रात् तथा लोकाम् अकल्पयन् .. १४ ..
सप्तास्यासन् परिधयस् त्रिः सप्त समिधः कृताः .
देवा यद् यज्ञम् तन्वाना अबध्नन् पुरुषम् पशुम् .. १५ ..
यज्ञेन यज्ञ मयजन्त देवास् तानि धर्माणि प्रथमान्य् आसन् .
ते ह नाकम् महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ..१६ ..
ॐ श्री रामचन्द्राय नमः . पुरुषसूक्त स्नानम् समर्पयामि. ..
३१. २ श्री सूक्त
हिरण्यवर्णाम् हरिणीम् सुवर्णरजतस्रजाम् .
चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो म आवह .. १..
ताम् म आवह जातवेदो लक्ष्मीमनपगामिनीम् .
यस्याम् हिरण्यम् विन्देयम् गामश्वम् पुरुषानहम् .. २ ..
अश्वपूर्वाम् रथमध्याम् हस्तिनादप्रमोदिनीम् .
श्रियम् देवीमुपह्वये र्मा देवी जुषताम् .. ३ ..
कान्सोस्मि ताम् हिरण्यप्राकारामार्द्राम् ज्वलन्तीम् त्रुप्ताम् तर्पयन्तीम् .
पद्मेस्थिताम् पद्मवर्णाम् तामिहोपह्वये श्रियम् .. ४ ..
चन्द्राम् प्रभासाम् यशसा ज्वलन्तीम् श्रियम् लोके देवजुष्टामुदाराम् .
ताम् पद्मिनीमीम् शरणमहम् प्रपद्येलक्ष्मीर्मे नश्यताम् त्वाम् व्रुणे .. ५.
आदित्यवर्णे तपसोधिजातो वनस्पतिस्तव व्रुक्षोथ बिल्वः .
तस्य फलानि तपसानुदन्तुमायान्तरायाश्च बाह्या अलक्ष्मीः .. ६ ..
उपैतु माम् देवसखः कीर्तिश्च मणिना सह .
प्रादुर्भूतोस्मि राष्ट्रेस्मिन्कीर्तिम्रुद्धिम् ददातु मे .. ७ ..
क्षुत्पिपासामलाम् ज्येष्ठामलक्ष्मीम् नाशयाम्यहम् .
अभूतिमसम्रुद्धिम् च सर्वाम् निर्णुदमे ग्रुहात् .. ८ ..
गन्धद्वाराम् दुराधर्षाम् नित्यपुष्टाम् करीषिणीम् .
ईश्वरीम् सर्वभूतानाम् तामिहोपह्वये श्रियम् .. ९ ..
मनसः काममाकूतिम् वाचः सत्यमशीमहि .
पशूनाम् रूपमन्नस्य मयि श्रीः श्रयताम् यशः .. १० ..
कर्दमेन प्रजाभूतामयि सम्भवकर्दम .
श्रियम् वासय मे कुले मातरम् पद्ममालिनीम् .. ११ ..
आपः स्रुजन्तु स्निग्धानि चिक्लीतवसमे ग्रुहे .
निचदेवीम् मातरम् श्रियम् वासय मे कुले .. १२ ..
आर्द्राम् पुष्करिणीम् पुष्टिम् सुवर्णाम् हेममालिनीम् .
सूर्याम् हिरण्मयीम् लक्ष्मीम् जातवेदो म आवह .. १३ ..
आर्द्राम् यः करिणीम् यष्टिम् पिङ्गलाम् पद्ममालिनीम् .
चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो म आवह .. १४ ..
ताम् म आवह जातवेदो लक्ष्मीमनपगामिनीम् .
यस्याम् हिरण्यम् प्रभूतम् गावोदास्योश्वान्विन्देयम् पुरुषानहम् .. १५ ..
यः शुचिः प्रयतो भूत्वा जुहुयादाज्य मन्वहम् .
सूक्तम् पञ्चदशर्चम् च कामः सततम् जपेत् .. १६ ..
पद्मानने पद्म ऊरू पद्माक्षी पद्मसम्भवे .
तन्मेभजसि पद्माक्षी येन सौख्यम् लभाम्यहम् .. १७ ..
अश्वदायी गोदायी धनदायी महाधने .
धनम् मे जुषताम् देवि सर्वकामान्श्च देहि मे .. १८ ..
पद्मानने पद्मविपद्मपत्रे पद्मप्रिये पद्मदलायताक्षि .
विश्वप्रिये विश्वमनोनुकूले त्वत्पादपद्मम् मयि सन्निधत्स्व .. १९ ..
ॐ श्री रामचन्द्राय नमः . श्री सूक्त स्नानम् समर्पयामि ..
३१. ३ विष्णु सूक्त
अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे .
प्रुथिव्याः सप्त धामभिः ..
इदम् विष्णुर्विचक्रमे त्रेधा नि दधे पदम् .
समूह्वयमस्य पाम्सुरे ..
त्रीणि पादा विचक्रमे विष्णुर्गोपा अदाभ्यः .
अतो धर्माणि धारयन् ..
विष्णोः कर्माणि पश्यतयोयतो व्रतानि पस्पशे .
इन्द्रस्य युज्यः सखा ..
तद् विष्णोः परमम् पदम् सदा पश्यन्ति सूर्यः .
दिवीव चक्षुराततम् ..
तद् विप्रासो विपन्यवो जाग्रुवाम्सः समिन्धते .
विष्णोर्यत् परमम् पदम् ..
देवस्य त्वा सवितुः प्रसवेश्विनोर्बाहुभ्याम् पूष्ण्यो हस्ताभ्याम्
अग्नेस्तेजसा सूर्यश्च अर्चसेन्द्रस्यम् अभिशिञ्चामि ..
बलाय श्रियै यशसेन्नाध्याय अम्रुताभिषेको अस्तु .
शान्तिः पुष्टिः तुष्टिः च अस्तु ..
ॐ श्री रामचन्द्राय नमः . महा अभिषेक स्नानम् समर्पयामि ..
३२ प्रतिष्ठापना
ॐ नमो रामचन्द्राय.. (Repeat 12 times)
ॐ तदस्तु मित्रा वरुणा तदग्ने सम्योरश्मभ्यमिदमेस्तुशस्तम् .
अशीमहि गादमुत प्रतिष्ठाम् नमो दिवे ब्रहते साधनाय ..
ॐ ग्रिहावै प्रतिष्ठासूक्तम् तत् प्रतिष्टित तमया वाचा .
शम् स्तव्यम् तस्माद्यद्यपिदूर इव पशून् लभते ग्रुहानेवै ..
नानाजिगमिशति ग्रिहाहि पशूनाम् प्रतिष्ठा प्रतिष्ठा
ॐ श्री रामचन्द्राय साङ्गाय सपरिवाराय सायुधाय
सशक्तिकाय नमः . श्री रामचन्द्राय साङ्गम् सपरिवारम्
सायुधम् सशक्तिकम् आवाहयामि ..
श्री सीता सहित श्री रामचन्द्राय नमः ..
सुप्रतिष्ठमस्तु ..
३३ वस्त्र
(offer two pieces of cloth for the Lord)
ॐ तम् यज्ञम् बर्हिषि प्रौक्षन् पुरुषम् जातमग्रतः .
तेन देवा अयजन्त साध्या रुषयश्च ये ..
ॐ उपैतु माम् देवसखः कीर्तिश्च मणिना सह .
प्रादुर्भूतोस्मि राष्ट्रेस्मिन्कीर्तिम्रुद्धिम् ददातु मे ..
तप्त काञ्चन सम्काशम् पीताम्बरम् इदम् हरे .
सङ्ग्रुहाण जगन्नाथ रामचन्द्र नमोस्तुते ..
ॐ श्री रामचन्द्राय नमः . वस्त्रयुग्मम् समर्पयामि ..
३४ यञ्योपवीतम्
तस्माद्यज्ञात्सर्वहुतः सम्भृतम् प्रुषदाज्यम् .
पशूगन्स्तागन्श्चक्रे वायव्यान् आरण्यान् ग्राम्याश्चये ..
क्षुत्पिपासामलाम् ज्येष्ठामलक्ष्मीम् नाशयाम्यहम् .
अभूतिमसम्रुद्धिम् च सर्वाम् निर्णुदमे ग्रुहात् ..
श्री रामच्युत देवेश धरानन्त राघव
ब्रह्मसूत्रम्चोत्तरीयम् ग्रुह्ण रघुनन्दन
ॐ श्री रामचन्द्राय नमः . यञ्योपवीतम् समर्पयामि ..
३५ आभरणम् हस्त भूषणम्
ग्रुहाण नानाभरणानि रामचन्द्रे निर्मितानि .
ललाट कण्ठोत्तम कर्ण हस्त नितम्ब हस्ताङ्गुलि भूषणानि ..
ॐ श्री रामचन्द्राय नमः . आभरणानि समर्पयामि ..
ॐ श्री रामचन्द्राय नमः . हस्त भूषणम् समर्पयामि ..
३६ गन्धम्
तस्माद्यज्ञात्सर्वहुतः रुचः सामानि जज्ञिरे .
छन्दागुम्सि जज्ञिरे तस्मात् यजुस्तस्मादजायत ..
गन्धद्वाराम् दुराधर्षाम् नित्यपुष्टाम् करीषिणीम् .
ईश्वरीम् सर्वभूतानाम् तामिहोपह्वये श्रियम् ..
कुङ्कुमागरु कस्तूरि कर्पूरं चन्दनं तथा
तुभ्यं दास्यामि राजेन्द्र राम स्वीकुरु प्रभो
ॐ श्री रामचन्द्राय नमः . गन्धम् समर्पयामि ..
३७ नाना परिमल द्रव्यम्
ॐ अहिरैव भोग्येः पर्येति बाहुम् जाया हेतिम् परिभादमानः .
हस्तञ्यो विश्वावयुनानि विद्वान् पुमास्प्रमान्सम् परिपातु विश्वतः ..
ॐ श्री रामचन्द्राय नमः . नाना परिमल द्रव्यम् समर्पयामि ..
३८ अक्षत
तस्मादश्वा अजायन्त ये के चो भयादतः .
गावो ह जज्ञिरे तस्मात् तस्माज्जाता अजावयः ..
मनसः काममाकूतिम् वाचः सत्यमशीमहि .
पशूनाम् रूपमन्नस्य मयि श्रीः श्रयताम् यशः ..
श्वेत तुण्डल सम्युक्तान् कुङ्कुमेन विराजितान् .
अक्षतान् ग्रुह्यताम् देव नारायण नमोस्तुते ..
ॐ श्री रामचन्द्राय नमः . अक्षतान् समर्पयामि ..
३९ पुष्प
माल्यादीनि सुगन्धीनि माल्यतादीनि वैप्रभो .
मया ह्रितानि पूजार्थम् पुष्पाणि प्रतिग्रुह्यताम् ..
ॐ श्री रामचन्द्राय नमः . पुष्पाणि समर्पयामि ..
तुळसी कुन्द मन्दार जाजी पुन्नाग चम्ब्पकैः .
कदम्ब करवीरैस्च कुसुमे शतपत्रकैः ..
जलाम्बुजै बिल्व पत्रैस् चम्पकै राघवम् विभुम् .
पूजयिष्याम्यहम् भक्त्या सङ्रुहाण जनार्धना ..
तुळसी कुन्द मन्दार पारिजाताम्बुजैर्युताम् .
वनमालां प्रदास्यामि ग्रुह्ण जगदीश्वर ..
ॐ श्री रमचन्द्राय नमः . पत्र पुष्पाणि वनमालां च समर्पयामि ..
४० नाना अलङ्कार
कटि सूताङ्गुली येच कुण्डले मुकुठम् तथा .
वनमालाम् कौस्तुभम् च ग्रुहाण पुरुषोत्तम ..
ॐ श्री रामचन्द्राय नमः . नाना अलङ्कारान् समर्पयामि ..
४१ अथाङ्गपूजा
ॐ श्री रामचन्द्राय नमः . पादौ पूजयामि ..
ॐ राजीवलोचनाय नमः . गुल्फौ पूजयामि ..
ॐ रावणान्तकाय नमः . जानुनी पूजयामि ..
ॐ वाचस्पतये नमः . जङ्घै पूजयामि ..
ॐ विश्वरूपाय नमः . ऊरून् पूजयामि ..
ॐ लक्ष्मणाग्रजाय नमः . गुह्यं पूजयामि ..
ॐ विश्वमूर्तये नमः . जघनं पूजयामि ..
ॐ विश्वामित्र प्रियाय नमः . कटिं पूजयामि ..
ॐ परमात्मने नमः . उदरं पूजयामि ..
ॐ श्रीकण्टाय नमः . हृदयं पूजयामि ..
ॐ यञ्यिने नमः . पार्श्वौ पूजयामि ..
ॐ त्रिविक्रमाय नमः . प्रुष्ठदेहं पूजयामि ..
ॐ पद्मनाभाय नमः . स्कन्धौ पूजयामि ..
ॐ सर्वास्त्रधारिणे नमः . बाहून् पूजयामि ..
ॐ रघूद्वहाय नमः . हस्तान् पूजयामि ..
ॐ आदि पुरुषाय नमः . कण्ठं पूजयामि ..
ॐ विभीशण परित्रात्रे नमः . वदनं पूजयामि ..
ॐ दया सागराय नमः . नासिकां पूजयामि ..
ॐ सेतुकृते नमः . श्रोत्रे पूजयामि ..
ॐ महायोगिने नमः . नेत्राणि पूजयामि ..
ॐ धनुर्धराय नमः . भ्रवौ पूजयामि ..
ॐ जितवाराशये नमः . भ्रूमध्यं पूजयामि ..
ॐ सीतापतये नमः . ललाटं पूजयामि ..
ॐ ज्ञान गम्याय नमः . शिरः पूजयामि ..
ॐ चन्द्रमौलये नमः . मौलिं पूजयामि ..
ॐ श्री रामचन्द्राय नमः सर्वाङ्गाणि पूजयामि ..
४२ अथ पुष्प पूजा
ॐ रामाय नमः . करवीर पुष्पं समर्पयामि ..
ॐ रामभद्राय नमः . जाजी पुष्पं समर्पयामि ..
ॐ शाश्वताय नमः . चम्पक पुष्पं समर्पयामि ..
ॐ राजीवलोचनाय नमः . वकुल पुष्पं समर्पयामि ..
ॐ मते नमः . शतपत्र पुष्पं समर्पयामि ..
ॐ राजेन्द्राय नमः . कल्हार पुष्पं समर्पयामि ..
ॐ रघुपुङ्गवाय नमः . सेवन्तिका पुष्पं समर्पयामि ..
ॐ जानकीवल्लभाय नमः . मल्लिका पुष्पं समर्पयामि ..
ॐ जैत्राय नमः . इरुवंतिका पुष्पं समर्पयामि ..
ॐ जितामित्राय नमः . गिरिकर्णिका पुष्पं समर्पयामि ..
ॐ जनार्दनाय नमः . आथसी पुष्पं समर्पयामि ..
ॐ विश्वामित्र प्रियाय नमः . पारिजात पुष्पं समर्पयामि ..
ॐ दान्ताय नमः . पुन्नाग पुष्पं समर्पयामि ..
ॐ वाग्मिने नमः . कुन्द पुष्पं समर्पयामि ..
ॐ सत्य वाचे नमः . मालति पुष्पं समर्पयामि ..
ॐ सत्य विक्रमाय नमः . केतकी पुष्पं समर्पयामि ..
ॐ सत्य व्रताय नमः . मन्दार पुष्पं समर्पयामि ..
ॐ व्रतधराय नमः . पातली पुष्पं समर्पयामि ..
ॐ कौसलेयाय नमः . अशोक पुष्पं समर्पयामि ..
ॐ खरध्वंसिने नमः . पूग पुष्पं समर्पयामि ..
ॐ विरादवधपण्डिताय नमः . दादिमा पुष्पं समर्पयामि ..
ॐ सप्ततालप्रभेत्रे नमः . देव दारु पुष्पं समर्पयामि ..
ॐ ताटकान्तकाय नमः . सुगन्ध राज पुष्पं समर्पयामि ..
ॐ वेदान्तसाराय नमः . कमल पुष्पं समर्पयामि ..
श्री रामचन्द्र स्वामिने नमः . पुष्पपूजां समर्पयामि ..
४३ अथ पत्र पूजा
ॐ रामाय नमः . तुळसी पत्रं समर्पयामि ..
ॐ आदिपुरुषाय नमः . जाजी पत्रं समर्पयामि ..
ॐ धन्विने नमः . चम्पका पत्रं समर्पयामि ..
ॐ पित्रुभक्ताय नमः . बिल्व पत्रं समर्पयामि ..
ॐ वरप्रदाय नमः . धुर्वायुग्मं समर्पयामि ..
ॐ जितक्रोधाय नमः . सेवन्तिका पत्रं समर्पयामि ..
ॐ जगद्गुरवे नमः . मरुग पत्रं समर्पयामि ..
ॐ महादेवाय नमः . दवन पत्रं समर्पयामि ..
ॐ महाभुजाय नमः . करवीर पत्रं समर्पयामि ..
ॐ सौम्याय नमः . विष्णु क्रान्ति पत्रं समर्पयामि ..
ॐ ब्रह्मण्याय नमः . माचि पत्रं समर्पयामि ..
ॐ मुनिसंस्तुताय नमः . मल्लिका पत्रं समर्पयामि ..
ॐ महायोगिने नमः . इरुवन्तिका पत्रं समर्पयामि ..
ॐ महोदराय नमः . अपामर्ग पत्रं समर्पयामि ..
ॐ परमपुरुषाय नमः . पारिजात पत्रं समर्पयामि ..
ॐ पुण्योदयाय नमः . दाडिम पत्रं समर्पयामि ..
ॐ दयासागराय नमः . बदरी पत्रं समर्पयामि ..
ॐ स्मितवक्त्राय नमः . देवदारु पत्रं समर्पयामि ..
ॐ मितभाषिणे नमः . मन्दार पत्रं समर्पयामि ..
ॐ पूर्वभाषिणे नमः . आम्र पत्रं समर्पयामि ..
ॐ राघवाय नमः . मन्दार पत्रं समर्पयामि ..
ॐ सेतुक्रते नमः . वट पत्रं समर्पयामि ..
ॐ जितवाराशये नमः . कमल पत्रं समर्पयामि ..
ॐ हरये नमः . वेणु पत्रं समर्पयामि ..
ॐ रामचन्द्र स्वामिने नमः . पत्रपूजां समर्पयामि ..
४४ अष्टोत्तरशतनाम पूजा
Chant Dhyaan Shlokas
ॐ रामाय रामभद्राय रामचन्द्राय वेधसे .
रघुनाथाय नाथाय सीताया पतये नमः ..
श्री रामं रघुवरं जानकिपतिं सुन्दरं
काकुथ्सं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् .
राजेन्द्रं सत्यसंधं दशरथतनयं श्यामलं शान्तमूर्तिं
वन्दे लोकाभिरामं रघुकुल तिलकं रावणारिं मुरारिम् ..
ॐ श्री रामाय नमः .
ॐ रामभद्राय नमः .
ॐ रामचन्द्राय नमः .
ॐ शाश्वताय नमः .
ॐ राजीवलोचनाय नमः .
ॐ मते नमः .
ॐ राजेन्द्राय नमः .
ॐ रघुपुङ्गवाय नमः .
ॐ जानकी वल्लभाय नमः .
ॐ जैत्राय नमः .
१०%
ॐ जितामित्राय नमः .
ॐ जनार्दनाय नमः .
ॐ विश्वामित्रप्रियाय नमः .
ॐ दान्ताय नमः .
ॐ शरणत्राणतत्पराय नमः .
ॐ वाली प्रमथनाय नमः .
ॐ वाग्मिने नमः .
ॐ सत्यवाचे नमः .
ॐ सत्यविक्रमाय नमः .
ॐ सत्यव्रताय नमः .
२०%
ॐ व्रतधराय नमः .
ॐ सदा हनुमदाश्रितय नमः .
ॐ कौसलेयाय नमः .
ॐ खरध्वंसिने नमः .
ॐ विरादवध पण्डिताय नमः .
ॐ विभीषण परित्रात्रे नमः .
ॐ हरकोदण्ड खण्डनाय नमः .
ॐ सप्तताल प्रभेत्रे नमः .
ॐ दशग्रीव शिरोहराय नमः .
ॐ जामद्ग्न्य महादर्प दलनाय नमः .
३०%
ॐ ताटकान्तकाय नमः .
ॐ वेदान्तसाराय नमः .
ॐ वेदात्मने नमः .
ॐ भवरोगस्य भेशजाय नमः .
ॐ दूषणत्रिशिरोहन्त्रे नमः .
ॐ त्रिमूर्तये नमः .
ॐ त्रिगुणात्मकाय नमः .
ॐ त्रिविक्रमाय नमः .
ॐ त्रिलोकात्मने नमः .
ॐ पुण्यचारित्रकीर्तनाय नमः .
४०%
ॐ त्रिलोकरक्षकाय नमः .
ॐ धन्विने नमः .
ॐ दण्डकारण्य कर्त्तनाय नमः .
ॐ अहल्या शाप शमनाय नमः .
ॐ पित्रु भक्ताय नमः .
ॐ वरप्रदाय नमः .
ॐ जितेन्द्रियाय नमः .
ॐ जितक्रोधाय नमः .
ॐ जितामित्राय नमः .
ॐ जगद्गुरवे नमः .
५०%
ॐ रुक्ष वानर सङ्घातिने नमः .
ॐ चित्रकूटसमाश्रयाय नमः .
ॐ जयन्त त्राण वरदाय नमः .
ॐ सुमित्रापुत्रसेविताय नमः .
ॐ सर्वदेवादिदेवाय नमः .
ॐ म्रुतवानर जीविताय नमः .
ॐ मायामारीचहन्त्रे नमः .
ॐ महादेवाय नमः .
ॐ महा भुजाय नमः .
ॐ सर्वदेवस्तुताय नमः .
६०%
ॐ सौम्याय नमः .
ॐ ब्रह्मण्याय नमः .
ॐ मुनि सम्स्तुताय नमः .
ॐ महा योगिने नमः .
ॐ महोदराय नमः .
ॐ सुग्रीवेप्सित राज्यदाय नमः .
ॐ सर्वपुण्याधिक फलाय नमः .
ॐ स्म्रित सर्वाघ नाशनाय नमः .
ॐ आदिपुरुषाय नमः .
ॐ परमपुरुषाय नमः .
७०%
ॐ पुण्योदयाय नमः .
ॐ दयासागराय नमः .
ॐ पुराणपुरुषोत्तमाय नमः .
ॐ स्मित वक्त्राय नमः .
ॐ मित भाषिणे नमः .
ॐ पूर्व भाषिणे नमः .
ॐ राघवाय नमः .
ॐ अनन्तगुणगम्भीराय नमः .
ॐ धीरोद्दत्त गुणोत्तमाय नमः .
ॐ मायामानुशचरित्राय नमः .
८०%
ॐ महादेवादिपूजिताय नमः .
ॐ सेतुकृते नमः .
ॐ जितवाराशये नमः .
ॐ सर्व तीर्थमयाय नमः .
ॐ हरये नमः .
ॐ श्यामाङ्गाय नमः .
ॐ सुन्दराय नमः .
ॐ शूराय नमः .
ॐ पीत वाससे नमः .
ॐ धनुर्धराय नमः .
९०%
ॐ सर्व यज्ञाधिपाय नमः .
ॐ यज्वने नमः .
ॐ जरामरण वर्जिताय नमः .
ॐ विभीषण प्रतिष्ठात्रे नमः .
ॐ सर्वापगुणवर्जिताय नमः .
ॐ परमात्मने नमः .
ॐ परस्मै ब्रह्मणे नमः .
ॐ सच्चिदानन्द विग्रहाय नमः .
ॐ परम्ज्योतिषे नमः .
ॐ परस्मै धाम्ने नमः .
१००%
ॐ पराकाशाय नमः .
ॐ परात्पराय नमः .
ॐ परेशाय नमः .
ॐ पारगाय नमः .
ॐ पाराय नमः .
ॐ सर्व देवात्मकाय नमः .
ॐ परस्मै नमः .
ॐ श्री रामाय नमः ..
इति अष्टोत्तर पूजां समर्पयामि ..
४५ धूपम्
वनस्पत्युद्भवो दिव्यो गन्धाढ्यो गन्धवुत्तमः .
रामचन्द्र महिपालो धूपोयम् प्रतिग्रुह्यताम् ..
यत्पुरुषम् व्यदधुः कतिधा व्यकल्पयन् .
मुखम् किमस्य कौ बाहू कावूरू पादावुच्येते ..
ॐ श्री रामचन्द्र स्वामिने नमः . धूपम् आघ्रापयामि ..
४६ दीपम्
साज्यम् त्रिवर्ति सम्युक्तम् वह्निना योजितुम् मया .
ग्रुहाण मङ्गलम् दीपम् त्रैलोक्य तिमिरापहम् ..
ज्योतिशां पतये तुभ्यम्, नमो रामाय वेधसे .
ग्रुहाण दीपकं चैव, त्रैलोक्य तिमिरापह ..
ब्राह्मणोस्य मुखमासीत् बाहू राजन्यः कृतः .
ऊरू तदस्य यद्वैश्यः पद्भ्याम् शूद्रो अजायत ..
ॐ श्री रामचन्द्राय नमः . दीपम् दर्शयामि ..
४७ नैवेद्यम्
(dip finger in water and write a square and
'shrii' mark inside the square. Place naivedya on
'shrii'. ; remove lid and sprinkle water around
the vessel; place in each food item one washed
leaf/flower/akShatha)
ॐ नारायणाय विद्महे . वासुदेवाय धीमहि .
तन्नो राम प्रचोदयात् ..
ॐ नमः रामचन्द्राय..
(show mudras)
निर्वीषिकरणार्थे तार्क्ष मुद्रा .
अम्रुती करणार्थे धेनु मुद्रा .
पवित्रीकरणार्थे शङ्ख मुद्रा .
सम्रक्षणार्थे चक्र मुद्रा .
विपुलमाया करणार्थे मेरु मुद्रा .
Touch naivedya and chant 9 times ' ओम्'
ॐ सत्यम्तवर्तेन परिसिञ्चामि
(sprinkle water around the naivedya)
भोः! स्वामिन् भोजनार्थम् आगश्चादि विज्ञाप्य
(request Lord to come for dinner)
सौवर्णे स्थालिवैर्ये मणिगणकचिते गोघृताम्
सुपक्वाम् भक्ष्याम् भोज्याम् च लेह्यानपि
सकलमहम् जोष्यम्न नीधाय नाना शाकै रूपेतम्
समधु दधि घृतम् क्षीर पाणीय युक्तम्
ताम्बूलम् चापि श्री रामम् प्रतिदिवसमहम् मनसे चिन्तयामि ..
अद्य तिष्ठति यत्किञ्चित् कल्पितश्चापरङ्ग्रुहे
पक्वान्नम् च पानीयम् यथोपस्कर सम्युतम्
यथाकालम् मनुष्यार्थे मोक्ष्यमानम् शरीरिभिः
तत्सर्वम् विष्णुपूजास्तु प्रयताम् मे जनार्दन
सुधारसम् सुविफुलम् आपोषणमिदम्
तव ग्रुहाण कलशानीतम् यथेष्टमुप भुज्ज्यताम् ..
ॐ नमो रामचन्द्राय . श्री रामचन्द्राय नमः ..
अम्रुतोपस्तरणमसि स्वाहा ..
(drop water froM sha.nkha)
ॐ प्राणात्मने रामाय स्वाहा .
ॐ अपानात्मने लक्षमणाय स्वाहा .
ॐ व्यानात्मने भरताय स्वाहा .
ॐ उदानात्मने शत्रुघ्नाय स्वाहा .
ॐ समानात्मने आञ्जनेयाय स्वाहा .
ॐ नमः रामचन्द्राय .
नैवेद्यम् ग्रुह्यताम् देव भक्ति मे अचलाम् कुरुः .
ईप्सितम् मे वरम् देहि इहत्र च पराम् गतिम् ..
श्री रामचन्द्रनमस्तुभ्यम् महा नैवेद्यम् उत्तमम् .
सङ्ग्रुहाण सुरश्रेष्ठ भक्ति मुक्ति प्रदायकम् ..
चन्द्रमा मनसो जातः चक्षोः सूर्यो अजायत .
मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत ..
आर्द्राम् पुष्करिणीम् पुष्टिम् सुवर्णाम् हेममालिनीम् .
सूर्याम् हिरण्मयीम् लक्ष्मीम् जातवेदो म आवह ..
ॐ नमो रामचन्द्राय .
श्री जानकि सहित रामचन्द्राय नमः .
नैवेद्यम् समर्पयामि ..
(cover face with cloth and chant गायत्री मन्त्र
five times or repeat 12 times
ॐ नमः नारायणाय )
सर्वत्र अम्रुतोपिधान्यमसि स्वाहा .
ॐ श्री जानकि सहित रामचन्द्राय नमः .
उत्तरापोषणम् समर्पयामि ..
(Let flow water froM sha.nkha)
४८ महा फलम्
(put tulsi / akShathaa on a big fruit)
इदम् फलम् मयादेव स्थापितम् पुरतस्तव .
तेन मे सफलावाप्तिर्भवेत् जन्मनिजन्मनि ..
ॐ श्री रामचन्द्राय नमः . महाफलम् समर्पयामि .
४९ फलाष्टक
(put tulsi/akshata on fruits)
कूष्माण्ड मातुलिङ्गम् च कर्कठी दाडिमी फलम् .
रम्बा फलम् जम्बीरम् बदरम् तथा ..
ॐ श्री रामचन्द्राय नमः . फलाष्टकम् समर्पयामि ..
५० करोद्वर्तनम्
करोद्वर्तनकम् देवमया दत्तम् हि भक्तितः .
चारु चन्द्र प्रभाम् दिव्यम् ग्रुहाण जगदीश्वर ..
ॐ श्री रामचन्द्राय नमः .
करोद्वर्तनार्थे चन्दनम् समर्पयामि ..
५१ ताम्बूलम्
पूगिफलम् सताम्बूलम् नागवल्लि दलैर्युतम् .
ताम्बूलम् ग्रुह्यताम् राम येल लवङ्ग सम्युक्तम् ..
ॐ श्री रामचन्द्राय नमः . पूगिफल ताम्बूलम् समर्पयामि ..
५२ दक्षिणा
हिरण्य गर्भ गर्भस्थ हेमबीज विभावसोः .
अनन्त पुण्य फलदा अथः शान्तिम् प्रयश्च मे ..
ॐ श्री रामचन्द्राय नमः . सुवर्ण पुष्प दक्षिणाम् समर्पयामि ..
५३ महा नीराजन
यै जातः श्रिय अनिरियाय श्रियम् वयो जरित्रभ्यो ददाति
श्रियम् वसाना अम्रुतत्त्व मायन् भवन्ति सत्या समिधा मितद्रौ
श्रिय येवैनम् तत् श्रिया मादधाति सन्तत म्रुचा वषट् कृत्यम्
सन्ततम् सन्धीयते प्रजया पशुभिः ययेवम् वेद ..
ॐ श्री रामचन्द्राय नमः . महा नीराजनम् दीपम् समर्पयामि ..
५४ कर्पूर दीप
अर्चत प्रार्चत प्रियमे धासो अर्चत .
अर्चन्तु पुत्रका वता पुराण धृष्ण वर्चत ..
कर्पूरकम् महाराज रम्भोद्भूतम् च दीपकम् .
मङ्गलार्थम् महीपाल सङ्ग्रुहाण जगत्पते ..
ॐ श्री रामचन्द्राय नमः . कर्पूर दीपम् समर्पयामि ..
५५ प्रदक्षिणा
नाभ्या आसीदन्तरिक्षम् शीर्ष्णो द्यौः समवर्तत .
पद्भ्याम् भूमिर्दिशः श्रोत्रात् तथा लोकाङ्ग अकल्पयन् ..
आर्द्राम् यःकरिणीम् यष्टिम् पिङ्गलाम् पद्ममालिनीम् .
चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो म आवह ..
यानि कानि च पापानि जन्मान्तर कृतानि च .
तानि तानि विनश्यन्ति प्रदक्षिणे पदे पदे ..
अन्यथा शरणम् नास्ति त्वमेव शरणम् मम .
तस्मात् कारुण्य भावेन रक्ष रक्ष रमापते ..
श्री रामचन्द्राय नमः . प्रदक्षिणान् समर्पयामि ..
५६ नमस्कार
सप्तास्यासन् परिधयः त्रिस्सप्त समिधः कृताः .
देवा यद्यज्ञम् तन्वानाः अबध्नन्पुरुषम् पशुम् ..
ताम् म आवह जातवेदो लक्ष्मीमनपगामिनीम् .
यस्याम् हिरण्यम् प्रभूतम् गावोदास्योश्वान्विन्देयम् पुरुषानहम् ..
नमः सर्व हितार्थाय जगदाधार हेतवे .
साष्टाङ्गोयम् प्रणामस्ते प्रयत्नेन मया कृतः ..
ऊरुसा शिरसा द्रुष्ट्वा मनसा वाचसा तथा .
पद्भ्याम् कराभ्याम् जानुभ्याम् प्रणामोष्टाङ्गम् उच्यते ..
शाट्येनापि नमस्कारान् कुर्वतः शारङ्ग पाणये .
शत जन्मार्चितम् पापम् तत्क्षणतेव नश्यति ..
श्री रामचन्द्राय नमः . नमस्कारान् समर्पयामि ..
५७ राजोपचार
ग्रुहाण परमेशान सरत्ने छत्र चामरे .
दर्पणम् व्यञ्जनम् चैव राजभोगाय यत्नथः ..
श्री रामचन्द्राय नमः . छत्रम् समर्पयामि ..
श्री रामचन्द्राय नमः . चामरम् समर्पयामि ..
श्री रामचन्द्राय नमः . गीतम् समर्पयामि ..
श्री रामचन्द्राय नमः . न्रुत्यम् समर्पयामि ..
श्री रामचन्द्राय नमः . वाद्यम् समर्पयामि ..
श्री रामचन्द्राय नमः . दर्पणम् समर्पयामि ..
श्री रामचन्द्राय नमः . व्यन्जनम् समर्पयामि ..
श्री रामचन्द्राय नमः . आन्दोलनम् समर्पयामि ..
श्री रामचन्द्राय नमः . राजोपचारान् समर्पयामि ..
श्री रामचन्द्राय नमः . सर्वोपचारान् समर्पयामि ..
श्री रामचन्द्राय नमः . समस्त राजोपचारर्थे अक्षतान् समर्पयामि ..
५८ मन्त्र पुष्प
यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् .
ते ह नाकम् महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः ..
यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् .
सूक्तम् पञ्चदशर्चम् च कामः सततम् जपेत् ..
विद्या बुद्धि धनैश्वर्य पुत्र पौत्रादि सम्पदः .
पुष्पान्जलि प्रदानेन देहिमे ईप्सितम् वरम् ..
नमोस्त्वनन्ताय सहस्र मूर्तये सहस्र पादाक्षि शिरोरु बाहवे .
सहस्रनाम्ने पुरुषाय शाश्वते सहस्र कोटी युगधारिणे नमः ..
ॐ नमो महद्भ्यो नमो अर्भकेभ्यो नमो युवभ्यो नमो आसीनेभ्यः .
यजाम् देवान्य दिशक्रवा ममा जायसः शम् समाव्रुक्षिदेव ..
ॐ ममत्तुनः परिज्ञावसरः ममत्तु वातो अपाम् व्रशन्वान् .
शिशीतमिन्द्रा पर्वता युवन्नस्थन्नो विश्वेवरिवस्यन्तु देवाः ..
ॐ कथात अग्ने शुचीयन्त अयोर्ददाशुर्वाजे भिराशुशानः .
उभेयत्तोकेतनये दधाना रुतस्य सामन्रुणयन्त देवाः ..
ॐ राजाधि राजाय प्रसह्य साहिने नमो वयम् वैश्रवणाय
कूर्महे समे कामान् काम कामाय मह्यम् कामेश्वरो
वैश्रवणो दधातु कुबेराय वैश्रवणाय महाराजाय नमः ..
ॐ स्वस्ति साम्राज्यम् भोज्यम् स्वाराज्यम् वैराज्यम्
पारमेष्ठाम् राज्यम् महाराज्यमाधिपत्यमयम् समन्त
पर्यायिस्यात् सार्व भौमः सार्वायुशः अन्तादा
परार्धात् प्रुथिव्यै समुद्र पर्यन्ताय एकरालिति तदप्येश
श्लोकोभिगीतो मरूतः परिवेष्टारो मरुतस्या वसन्ग्रुहे
आवीक्षितस्य कामप्रेर्विश्वेदेवा सभासद इति ..
श्री रामचन्द्राय नमः . मन्त्रपुष्पम् समर्पयामि ..
५९ शङ्ख ब्रमण
(make three rounds of sha.nkha with
water like aarati and pour down;
chant OM 9 times and show mudras)
इमाम् आपशिवतम इमम् सर्वस्य भेषजे .
इमाम् राष्ट्रस्य वर्धिनि इमाम् राष्ट्र भ्रतोमत ..
६० तीर्थ प्राश्न
ॐ श्रियः कान्ताय कल्याण निधये निधयेर्तिनाम् .
श्री वेङ्कट निवासाय निवासाय मङ्गलम् ..
सर्वदा सर्व कार्येषु नास्ति तेषाम् अमङ्गलम् .
येषाम् हृदयिस्थो भगवान् मङ्गलायतनो हरिः ..
लाभस्तेषाम् जयस्तेषाम् कुतस्तेषाम् पराजयः .
येषाम् इन्दीवर श्यामो हृदयस्तो जनार्दनः ..
अकाल म्रुत्यु हरणम् सर्व व्याधि निवारणम् .
सर्व पाप उपशमनम् श्री राम पादोदकम् शुभम् ..
६१ उपयन दानम्
ब्राह्मण सुहासिनि पूजा
(wash feet wipe offer gandha kumkum flowers
fruits and gitfs and make obeisances)
इष्ट काम्यार्थ प्रयुक्त सम्यग् आचरित श्री राम नवमि पूजा
सम्पूर्ण फल वाप्यर्थम् श्री रामचन्द्र स्वरूपाय
ब्राह्मणाय वायन दानम् करिष्ये ..
श्री रामचन्द्र स्वरूपाय ब्राह्मणाय आवाहन पूर्वक आसनम्
गन्धम् अक्षत धूप दीपादि सकलाराधनै स्वर्चितम् .
नारायण प्रतिग्रुह्णतु नारायणो वै ददाति च
नारायणो तारकोभ्याम् नारायणाय नमो नमः .
देवस्य त्व सवितुः प्रसवेश्विनोर्भाहुभ्याम् पूष्नो हस्ताभ्याम्
अग्ने तेजसा सूर्यस्य वर्च सेन्द्रियेन्नाभिशिञ्चामि .
बलाय श्रियै यशसेन्न द्याय श्री रामचन्द्राय नमः .
वायनदानम् प्रतिग्रुह्णातु ( प्रतिग्रुह्ण विलाति प्रतिवचनम्)
६२ विसर्जन पूजा
आराधितानाम् देवतानाम् पुनः पूजाम् करिष्ये ..
श्री रामचन्द्र स्वामि देवताभ्यो नमः ..
पूजान्ते छत्रम् समर्पयामि . चामरम् समर्पयामि .
न्रुत्यम् समर्पयामि . गीतम् समर्पयामि .
वाद्यम् समर्पयामि . आन्दोलिक आरोहणम् समर्पयामि .
अश्वारोहणम् समर्पयामि . गजारोहणम् समर्पयामि .
श्री रामचन्द्र स्वामी देवताभ्यो नमः .
समस्त राजोपचार देवोपचार शक्त्युपचार भक्त्युपचार
पूजाम् समर्पयामि ..
६३ आत्म समर्पण
यस्य स्म्रुत्या च नाम्नोक्त्या तपः पूजा क्रियादिशु .
न्यूनम् सम्पूर्णताम् याति सद्यो वन्दे तम् अच्युतम् ..
मन्त्रहीनम् क्रियाहीनम् भक्तिहीनम् जनार्दन .
यत्पूजितम् मयादेव परिपूर्णम् तदस्तु मे ..
आवाहनम् न जानामि न जानामि विसर्जनम्
पूजाविधिम् न जानामि क्षमस्व पुरुषोत्तम
अनेन मया कृतेन श्री रामचन्द्र देवता
सुप्रीता सुप्रसन्ना वरदा भवतु .
मध्ये मन्त्र तन्त्र स्वर वर्ण न्युनातिरिक्त लोप दोष
प्रायश्चित्तार्थम् राम नाम महा मन्त्र जपम् करिष्ये ..
ॐ रामाय नमः . रामभद्राय नमः . रामचन्द्राय नमः .
ॐ रामाय नमः . रामभद्राय नमः . रामचन्द्राय नमः .
ॐ रामाय नमः . रामभद्राय नमः . रामचन्द्राय नमः .
ॐ राम रामभद्र रामचन्द्रेभ्यो नमः .
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् .
करोमि यद्यत् सकलम् परस्मै रामचन्द्रेति समर्पयामि ..
नमस्मरोमि .
श्री रामचन्द्र स्वामी देवता प्रसादम् शिरसा ग्रुह्णामि ..
६४ क्षमापनम्
अपराध सहस्राणि क्रियन्ते अहर्निशम् मया .
तानि सर्वाणि मे देव क्षमस्व पुरुषोत्तम ..
यान्तु देव गण सर्वे पूजाम् आदाय पर्तिवीम्
इष्ट काम्यार्थ सिध्यर्थम् पुनरागमनाय च ..
(Shake the kalasha)
.. श्री रामचन्द्रार्पणमस्तु ..
Transliterated by Sri S.A. Bhandarkar(achkumg3@batelco.com.bh)
Modified for ITRANS;
Proof Reading by Saroja Sundaresan (intersid@batelco.com.bh)
Send corrections to Sowmya Ramkumar (ramkumar@batelco.com.bh)
Last updated on March 31, 1998
Please send comments and suggestions to
Saroja Sundaresan
This page uses Unicode encoding for Devanagari.
Please set the fonts and languages setting in your web browser to display the correct
Unicode devanagari font such as Mangal.ttf from Microsoft or Raghu8.ttf from the BBC site.
Questions, comments:shree@yahoo.com