.. दुर्गा पूजा ..
संध्योपासनमंत्राणि
ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा .
यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ..
ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता .
त्वं च धारय मां देवि पवित्रं कुरु चासनम् ..
ॐ केशवाय नमः स्वाहा . ॐ नारायणाय नमः स्वाहा .
ॐ माधवाय नमः स्वाहा .
हरिः ॐ तत्सदद्यैतस्य श्रीब्रह्मणो द्वितीयपरार्धे
श्रीश्वेतवाराहकल्पे ओस्ट्रेलियाद्विपे केनबरानगरे
एबोरिजिनीवर्तैकदेशान्तर्गते पुण्यक्षेत्रे कलियुगे
कलिप्रथमचरणे
त्रिपञ्चाशतधिकद्विसहस्र संवत्सरे
आश्विन मासे
शुक्ल पक्षे
पंचमि तिथौ
सोमवासरे
भरद्वाजऋषयः गोत्रोत्पन्नः
शर्मानः वयं अस्माकमोपात्तदुरितक्षयपूर्वकं
श्रीदुर्गाप्रीत्यर्थं
संध्योपासनं दुर्गापूजां च
करिष्यामहे .
ॐ ऋतञ्च सत्यञ्चाभीद्धात्तपसोऽध्यजायत .
ततो रात्र्यजायत . ततः समुद्रो अर्णवः .. १ ..
ॐ समुद्रादर्णवादधि संवत्सरो अजायत .
अहोरात्राणि विदधद्विश्वस्य मिषतो वशी .. २ ..
ॐ सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् .
दिवं च पृथिवीं चान्तरिक्षमथो स्वः .. ३ .
ऋ .. ८ .. ८ .. ४८
ॐ शन्नो देवीरभिष्टय आपो भवन्तु पीतये .
शंयोरभिस्त्रवन्तु नः .. ..
इन्द्रियस्पर्शमन्त्राः
ॐ वाक् वाक् . ॐ प्राणः प्राणः . ॐ चक्षुः चक्षुः .
ॐ श्रोत्रं श्रोत्रम् . ॐ नाभिः . ॐ हृदयम् . ॐ कण्ठः .
ॐ शिरः . ॐ बाहुभ्यां यशोबलम् . ॐ करतलकरपृष्ठे .. ..
ॐ भूः पुनातु शिरसि . ॐ भुवः पुनातु नेत्रयोः .
ॐ स्वः पुनातु कण्ठे . ॐ महः पुनातु हृदये .
ॐ जनः पुनातु नाभ्याम् . ॐ तपः पुनातु पादयोः .
ॐ सत्यं पुनातु पुनः शिरसि . ॐ खं ब्रह्म पुनातु सर्वत्र .. ..
अथप्राणायाममन्त्रः
ॐ भूः . ॐ भुवः . ॐ स्वः . ॐ महः . ॐ जनः .
ॐ तपः . ॐ सत्यम् .
ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धीयो यो नः प्रचोदयात् .
ॐ आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः स्वरोम् .. ..
मनसा परिक्रमामन्त्राः
ॐ प्राची दिगग्निरधिपतिरसितो रक्षितादित्या इषवः .
तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो
अस्तु . योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे
दध्मः .. १ . अथर्व .. ३ .. २७ .. १
ॐ दक्षिणा दिगिन्द्रोऽधिपतिस्तिरश्चिराजी रक्षिता
पितर इषवः . तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम
इषुभ्यो नम एभ्यो अस्तु . योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं
वो जम्भे दध्मः .. २ . अथर्व .. ३ .. २७ .. २
ॐ प्रतीची दिग्वरुणोऽधिपतिः पृदाकू
रक्षितान्नमिषवः . तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम
इषुभ्यो नम एभ्यो अस्तु . योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं
वो जम्भे दध्मः .. ३ . अथर्व .. ३ .. २७ .. ३
ॐ उदीची दिक् सोमोऽधिपतिः स्वजो रक्षिताऽशनिरिषवः .
तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो
अस्तु . योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे
दध्मः .. ४ . अथर्व .. ३ .. २७ .. ४
ॐ ध्रुवा दिग्विष्णुरधिपतिः कल्माषग्रीवो रक्षिता
वीरुध इषवः .
तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो
अस्तु . योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे
दध्मः .. ५ . अथर्व .. ३ .. २७ .. ५
ॐ ऊर्ध्वा दिग्बृहस्पतिरधिपतिः श्वित्रो रक्षिता
वर्षमिषवः .
तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो
अस्तु . योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे
दध्मः .. ६ . अथर्व .. ३ .. २७ .. ६
उपस्थानमन्त्राः
ॐ उद्वयन्तमसस्परि स्वः पश्यन्त उत्तरम् . देवं
देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् .. १ .
ऋ .. १ .. ५० .. १०; यजु .. ३५ .. १४
ॐ उदुत्यं जातवेदसं देवं वहन्ति केतवः . दृशे
विश्वाय सूर्यम् .. २ . ऋ .. १ .. ५० .. १; यजु .. ७ .. ४१
ॐ चित्रं देवानामुद्गादनीकं चक्षुर्मित्रस्य
वरुणस्याग्नेः . आप्रा द्यावापृथिवी अन्तरिक्ष~म् सूर्य आत्मा
जगतस्तस्थुषश्च स्वाहा .. ३ .
ऋ .. १ .. ११५ .. १; यजु .. ७ .. ४२
ॐ तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् . पश्येम
शरदः शतं जीवेम शरदः शत~म् शृणुयाम शरदः
शतं प्रब्रवाम शरदः शतमदीनाः स्याम शरदः शतं
भूयश्च शरदः शतात् .. १ . यजु .. ३५ .. २४
गायत्रीमन्त्रः
ॐ भूर्भुवः स्वः . तत्सवितुर्वरेण्यं भर्गो देवस्य
धीमहि . धियो यो नः प्रचोदयात् . ऋ .. ३ .. ६२ .. १०
नमस्कारमन्त्रः
ॐ नमः शम्भवाय च मयोभवाय च नमः शङ्कराय
च मयस्कराय च नमः शिवाय च शिवतराय च .
यजु .. १६ .. ४१
हवनमन्त्राः
अथेश्वरस्तुतिप्रार्थनोपासना
ॐ विश्वानि देव सवितर्दुरितानि परा सुव . यद् भद्रं
तन्न आ सुव .. १ . ऋ .. ५ .. ८२ .. ५
ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः
पतिरेक आसीत् . स दाधार पृथिवीं द्यामुतेमां कस्मै
देवाय हविषा विधेम .. २ . यजु .. १३ .. ४
ॐ य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं
यस्य देवाः . यस्य छायाऽमृतं यस्य मृत्युः कस्मै देवाय
हविषा विधेम .. ३ . ऋ .. १० .. १२१ .. २; यजु .. २५ .. १३
ॐ य प्राणतो निमिषतो महित्वैक इद्राजा जगतो
बभूव . य ईशे द्विपदश्चतुष्पदः कस्मै देवाय
हविषा विधेम .. ४ . ऋ .. १० .. १२१ .. ३; यजु .. २५ .. ३
ॐ येन द्यौरुग्रा पृथिवी च दृ"धा येन स्वः
स्तभितं येन नाकः . यो अन्तरिक्षे रजसो विमानः कस्मै देवाय
हविषा विधेम .. ५ .
ऋ .. १० .. १२१ .. ५; यजु .. ३२ .. ६ . अथर्व .. ४ .. २ .. ४
ॐ प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता
बभूव . यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो
रयीणाम् .. ६ . ऋ .. १० .. १२१ .. १०
ॐ स नो बन्धुर्जनिता स विधाता धामानि वेद
भुवनानि विश्वा . यत्र देवा अमृतमानशानास्तृतीये
धामन्नध्यैरयन्त .. ७ . यजु .. ३२ .. १०
ॐ अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि
विद्वान् . युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमौक्तिं
विधेम .. ८ . ऋ .. १ .. १८९ .. १; यजु .. ३ .. ३६; ७ .. ४३; ४० .. १६
अथ आचमनमन्त्राः
ॐ अमृतोपस्तरणमसि स्वाहा .. १ ..
ॐ अमृतापिधानमसि स्वाहा .. २ ..
ॐ सत्यं यशः श्रीर्मय श्रीः श्रयतां स्वाहा .. ३ .
तै .. आ .. १० .. २२ .. ३५
इन्द्रियस्पर्शमन्त्राः
ॐ वाङ् म आस्येऽस्तु . ॐ नसोर्मे प्रणोऽस्तु . ॐ अक्ष्णोर्मे
चक्षुरस्तु . ॐ कर्णयोर्मे श्रोत्रमस्तु . ॐ बाह्वोर्मे बलमस्तु . ॐ
उर्वोर्मे ओजोऽस्तु . ॐ अरिष्टानि मेऽङ्गानि तनूस्तन्वा मे सह
सन्तु . पारस्करगृह्यसूत्रम् . कण्डिका ३ . सू .. २५
शान्तिमन्त्राः
ॐ सह नाववतु . सह नौ भुनक्तु . सह वीर्यं
करवावहै . तेजस्वि नावधीतमस्तु मा विद्विषावहै ..
ॐ शान्तिः शान्तिः शान्तिः .. १ .
ॐ शं नो मित्रः शं वरुणः . शं नो भवत्वर्यमा .
शं न इन्द्रो बृहस्पतिः . शं नो विष्णुरुरुक्रमः . नमो
ब्रह्मणे . नमस्ते वायो . त्वमेव प्रत्यक्षं ब्रह्मासि . त्वामेव
प्रत्यक्षं ब्रह्म वदिष्यामि . ऋतं वदिष्यामि . सत्यं
वदिष्यामि . तन्मामवतु . तद्वक्तारमवतु . अवतु माम् . अवतु
वक्तारम् ..
ॐ शान्तिः शान्तिः शान्तिः .. २ .
ॐ भद्रं कर्णेभिः शृणुयाम् देवाः . भद्रं
पश्येमाक्षभिर्यजत्राः . स्थिरैरङ्गैस्तुष्टुवा~म्
सस्तनूभिः . व्यशेमहि देवहितं यदायुः . स्वस्ति न इन्द्रो
वृद्धश्रवाः . स्वस्ति नः पूषा विश्ववेदाः . स्वस्ति
नस्तार्क्ष्यो अरिष्टनेमिः . स्वस्ति नो बृहस्पतिर्दधातु ..
ॐ शान्तिः शान्तिः शान्तिः .. ३ .
ॐ असतो मा सद्गमय . तमसो मा ज्योतिर्गमय .
मृत्योर्मामृतं गमय ..
ॐ शान्तिः शान्तिः शान्तिः .. ४ .
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते .
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते .
ॐ शान्तिः शान्तिः शान्तिः .. ५ .
दुर्गा पूजन
पूजन सामग्री .
नैवेद्यः ( शर्कराखण्डानि अथवा फलानि) . अक्षत . पुष्प .
चन्दन . धूप . कर्पूर . कुङ्कुमः .
श्रीफल . ताम्बूलम् . पूगीफलम् . तुलसी . घी . दधि . मधु . दुग्धम् .
( पञ्चामृतः) .
जल . आसन . कलश . स्थालिका . चम्मच . दीप . घण्टा . शङ्खम् .
यज्ञोपवित . दक्षिणा . आरतीस्थालिका . वस्त्रम् .
दुर्गा पूजन मंत्राणि
गणेश स्मरण
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः .
लम्बोदरश्च विकटो विघ्ननाशो विनायकः ..
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः .
द्वादशैतानि नामानि यः पठेच्छृणुयादपि ..
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा .
संग्रामे संकटे चैवे विघ्नस्तस्य न जायते ..
श्रीमन्महागणाधिपतये नमः .
लक्ष्मीनारायणाभ्यां नमः .
उमामहेश्वराभ्यां नमः .
वाणीहिरण्यगर्भाभ्यां नमः .
शचीपुरन्दराभ्यां नमः .
मातृपितृचरणकमलेभ्यो नमः .
इष्टदेवताभ्यो नमः .
कुलदेवताभ्यो नमः .
ग्रामदेवताभ्यो नमः .
वास्तुदेवताभ्यो नमः .
स्थानदेवताभ्यो नमः .
एतत्कर्मप्रधानदेवताभ्यो नमः .
सर्वेभ्यो देवेभ्यो नमः .
सर्वेभ्यो ब्राह्मणेभ्यो नमः .
घण्टा पूजन
आगमार्थं तु देवानां गमनार्थं च रक्षसाम् .
कुरु घण्टे वरं नादं देवतास्थानसंनिधौ ..
घण्टास्थिताय गरुडाय नमः .
शङ्खपूजन
पृथिव्यां यानि तीर्थानि स्थावराणि चराणि च .
तानि तीर्थानि शङ्खेऽस्मिन् विशन्तु ब्रह्मशासनात्
शङ्खाय नमः . चन्दनं समर्पयामः .
शङ्खाय नमः . पुष्पं समर्पयामः .
त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे .
निर्मितः सर्वदेवैश्च पाञ्चजन्य . नमोऽस्तु ते ..
ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा .
यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ..
उदकुम्भाय नमः .
ॐ कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः .
मूले त्वस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ..
कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा .
ऋग्वेदोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः ..
अङ्गैश्च सहिताः सर्वे कलशं तु समाश्रिताः .
अत्र गायत्री सावित्री शान्तिः पुष्टिकरी तथा ..
सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः .
आयान्तु देवपूजार्थं दुरितक्षयकारकाः ..
गङ्गे च यमुने चैव गोदावरि सरस्वति .
नर्मदे सिन्धु कावेरि जलेऽस्मिन् संनिधिं कुरु ..
देवदानवसंवादे मथ्यमाने महोदधौ .
उत्पन्नोऽसि तदा कुम्भ . विधृतो विष्णुना स्वयम् ..
त्वत्तोये सर्वतीर्थानि देवाः सर्वे त्वयि स्थिताः .
त्वयि तिष्ठन्ति भूतानि त्वयि प्राणाः प्रतिष्ठिताः ..
शिवः स्वयं त्वमेवासि विष्णुस्त्वं च प्रजापतिः .
आदित्या वसवो रुद्रा विश्वेदेवाः सपैतृकाः ..
त्वयि तिष्ठन्ति सर्वेऽपि यतः कामफलप्रदाः .
त्वत्प्रसादादिमं यज्ञं कर्तुमीहे जलोद्भव .
सांनिध्यं कुरु मे देव प्रसन्नो भव सर्वदा ..
दुर्गायाः ध्यानम्
सिंहस्था शशिशेखरा मरकतप्रख्यैश्चतुर्भिर्भुजैः
शङ्खं चक्रधनुःशरांश्च दधती नेत्रैस्त्रिभिः
शोभिता .
आमुक्ताङ्गदहारकङ्कणरणत्काञ्चीरणन्नूपुरा दुर्गा
दुर्गतिहारिणी भवतु नो रत्नोल्लसत्कुण्डला .
ध्यानार्थे अक्षतपुष्पाणि समर्पयामः ॐ श्रीदुर्गायै नमः .
पुष्पाञ्जलि
ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
चण्डिकायै नमः . पुष्पाञ्जलिं समर्पयामः .
आवाहनं
एहि दुर्गे महाभागे रक्षार्थं मम सर्वदा .
आवाहयाम्यहं देवि सर्वकामार्थ सिद्धये ..
इत्यनेन पुष्पांजलिं कलशे यन्त्रे वा निधाय .
आत्मानं देवीरूपं विभाव्य पूजयेत् ..
हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् .
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो ममावह .. १ ..
आगच्छेह महादेवि सर्वसंपत्प्रदायिनि .
यावद्व्रतं समाप्येत तावत् त्वं सन्निधो भव ..
देवीम् आवाहयामि ..
ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
चण्डिकायै नमः . आवाहनं समर्पयामः ..
आवाहितो भव . स्थापितो भव . सन्निहितो भव .
सन्निरुद्धो भव . अवकुण्ठितो भव . सुप्रीतो भव .
सुप्रसन्नो भव . सुमुखो भव . वरदो भव .
प्रसीद प्रसीद ..
ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
चण्डिकायै नमः . आवाहनार्थे पुष्पाणि समर्पयामः .
ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
चण्डिकायै नमः . आसनार्थे तुलसीदलं समर्पयामः .
ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
चण्डिकायै नमः . पादयोः पाद्यं समर्पयामः .
ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
चण्डिकायै नमः . हस्तयोरर्घ्यं समर्पयामः .
ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
चण्डिकायै नमः . आचमनीयं जलं समर्पयामः .
ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
चण्डिकायै नमः . स्नानीयं जलं समर्पयामः .
आचमन स्नानान्ते आचमनीयं जलं समर्पयामः .
ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
चण्डिकायै नमः . पञ्चामृतस्नानं समर्पयामः .
ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
चण्डिकायै नमः . गन्धोदकं समर्पयामः .
ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
चण्डिकायै नमः . शुद्धोदकस्नानं समर्पयामः .
आचमन शुद्धोदकस्नानान्ते आचमनीयं जलं समर्पयामः .
ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
चण्डिकायै नमः . वस्त्रमुपवस्त्रं च समर्पयामः .
आचमन वस्त्रोपवस्त्रान्ते आचमनीयं जलं समर्पयामः .
ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
चण्डिकायै नमः . यज्ञोपवीतं समर्पयामः .
आचमन यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामः .
ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
चण्डिकायै नमः . चन्दनानुलेपनं समर्पयामः .
अथांगपूजा
ॐ दुर्गायै नमः . पादौ पूजयामः ..
ॐ महाकाल्यै नमः . गुल्फौ पूजयामः .
ॐ मंगलायै नमः . जानुनी पूजयामः ..
ॐ कात्यायन्यै नमः . ऊरून् पूजयामः ..
ॐ भद्रकाल्यै नमः . कटिं पूजयामः ..
ॐ कमलवासिन्यै नमः . नाभिं पूजयामः ..
ॐ शिवायै नमः . उदरं पूजयामः ..
ॐ क्षमायै नमः . हृदयं पूजयामः ..
ॐ कौमार्यै नमः . वक्षस्थलं पूजयामः ..
ॐ उमायै नमः . हस्तौ पूजयामः ..
ॐ महागौर्यै नमः . दक्षिणबाहुं पूजयामः ..
ॐ वैष्ण्व्यै नमः . वामबाहुं पूजयामः ..
ॐ रमायै नमः . स्कन्धौ पूजयामः ..
ॐ स्कन्दमात्रे नमः . कंठं पूजयामः ..
ॐ महिषमर्दिन्यै नमः . नेत्रे पूजयामः ..
ॐ सिंहवाहिन्यै नमः . मुखं पूजयामः .
ॐ माहेश्वर्यै नमः . शिरः पूजयामः ..
ॐ शुभप्रदायै नमः . ललाटं पूजयामः ..
ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
चण्डिकायै नमः . सर्वांगाणि पूजयामः ..
ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
चण्डिकायै नमः . पुष्पाणि समर्पयामः .
ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
चण्डिकायै नमः . तुलसीदलं मञ्जरीं च समर्पयामः .
नाम पूजा
ॐ महालक्ष्म्यै नमः .
ॐ कमलायै नमः .
ॐ पद्मासनयै नमः .
ॐ सोमायै नमः .
ॐ चण्डिकायै नमः .
ॐ अनघायै नमः .
ॐ रमायै नमः .
ॐ पीताम्बरधारिण्यै नमः .
ॐ दिव्यगन्धानुलेपनायै नमः .
ॐ सुरूपायै नमः .
ॐ रत्नदीप्तायै नमः .
ॐ वाञ्चितार्थप्रदायिन्यै नमः .
ॐ इंदिरायै नमः .
ॐ नारायणायै नमः .
ॐ कंबु ग्रीवायै नमः .
ॐ हरिप्रियायै नमः .
ॐ शुभदायै नमः .
ॐ लोकमात्रे नमः .
ॐ दैत्यदर्पापहारिण्यै नमः .
ॐ सुरासुरपूजितायै नमः .
ॐ महा लक्ष्म्यै नमः .
ॐ लक्ष्मी नाम पूजां समर्पयामः ..
ॐ स्वर्ण गौर्यै नमः .
ॐ महा गौर्यै नमः .
ॐ कात्यायन्यै नमः .
ॐ कौमार्यै नमः .
ॐ भद्रायै नमः .
ॐ विष्णुसौन्दर्यै नमः .
ॐ मंगलदेवी तायै नमः .
ॐ राकेन्दुवदनायै नमः .
ॐ चन्द्रशेखरपत्न्यै नमः .
ॐ विश्वेश्वरप्रियायै नमः .
ॐ दाक्षायण्यै नमः .
ॐ कृष्णवेण्यै नमः .
ॐ लोललोचनायै नमः .
ॐ भवान्यै नमः .
ॐ पंचकात्मजायै नमः .
श्री महा गौर्यै नमः .
ॐ महा गौरी नाम पूजां समर्पयामः ..
ॐ श्री महाकाली महालक्ष्मी महासरस्वती
देवतात्मका चण्डिकायै नमः ..
दुर्गा अष्टोत्तरशतनाम पूजा
ॐ
महिषघ्नीं महादेवीं कुमारीं सिंहवाहिनीम् .
दानवांस्तर्जयन्तीं च सर्वकामदुघां शिवाम् ..
ॐ श्रियै नमः .
ॐ उमायै नमः .
ॐ भारत्यै नमः .
ॐ भद्रायै नमः .
ॐ शर्वाण्यै नमः .
ॐ विजयायै नमः .
ॐ जयायै नमः .
ॐ वाण्यै नमः .
ॐ सर्वगतायै नमः .
ॐ गौर्यै नमः .
ॐ वाराह्यै नमः .
ॐ कमलप्रियायै नमः .
ॐ सरस्वत्यै नमः .
ॐ कमलायै नमः .
ॐ मायायै नमः .
ॐ मातंग्यै नमः .
ॐ अपरायै नमः .
ॐ अजायै नमः .
ॐ शांकभर्यै नमः .
ॐ शिवायै नमः .
ॐ चण्ड्यै नमः .
ॐ कुण्डल्यै नमः .
ॐ वैष्णव्यै नमः .
ॐ क्रियायै नमः .
ॐ श्रियै नमः .
ॐ ऐन्द्रयै नमः .
ॐ मधुमत्यै नमः .
ॐ गिरिजायै नमः .
ॐ सुभगायै नमः .
ॐ अंबिकायै नमः .
ॐ तारायै नमः .
ॐ पद्मावत्यै नमः .
ॐ हंसायै नमः .
ॐ पद्मनाभसहोदर्यै नमः .
ॐ अपर्णायै नमः .
ॐ ललितायै नमः .
ॐ धात्र्यै नमः .
ॐ कुमार्यै नमः .
ॐ शिखवाहिन्यै नमः .
ॐ शांभव्यै नमः .
ॐ सुमुख्यै नमः .
ॐ मैत्र्यै नमः .
ॐ त्रिनेत्रायै नमः .
ॐ विश्वरूपिण्यै नमः .
ॐ आर्यायै नमः .
ॐ मृडान्यै नमः .
ॐ हींकार्यै नमः .
ॐ क्रोधिन्यै नमः .
ॐ सुदिनायै नमः .
ॐ अचलायै नमः .
ॐ सूक्ष्मायै नमः .
ॐ परात्परायै नमः .
ॐ शोभायै नमः .
ॐ सर्ववर्णायै नमः .
ॐ हरप्रियायै नमः .
ॐ महालक्ष्म्यै नमः .
ॐ महासिद्ध्यै नमः .
ॐ स्वधायै नमः .
ॐ स्वाहायै नमः .
ॐ मनोन्मन्यै नमः .
ॐ त्रिलोकपालिन्यै नमः .
ॐ उद्भूतायै नमः .
ॐ त्रिसंध्यायै नमः .
ॐ त्रिपुरांतक्यै नमः .
ॐ त्रिशक्त्यै नमः .
ॐ त्रिपदायै नमः .
ॐ दुर्गायै नमः .
ॐ ब्राह्म्यै नमः .
ॐ त्रैलोक्यवासिन्यै नमः .
ॐ पुष्करायै नमः .
ॐ अत्रिसुतायै नमः .
ॐ गूढायै नमः .
ॐ त्रिवर्णायै नमः .
ॐ त्रिस्वरायै नमः .
ॐ त्रिगुणायै नमः .
ॐ निर्गुणायै नमः .
ॐ सत्यायै नमः .
ॐ निर्विकल्पायै नमः .
ॐ निरंजिन्यै नमः .
ॐ ज्वालिन्यै नमः .
ॐ मालिन्यै नमः .
ॐ चर्चायै नमः .
ॐ क्र्व्यादोप निबर्हिण्यै नमः .
ॐ कामाक्ष्यै नमः .
ॐ कामिन्यै नमः .
ॐ कान्तायै नमः .
ॐ कामदायै नमः .
ॐ कलहंसिन्यै नमः .
ॐ सलज्जायै नमः .
ॐ कुलजायै नमः .
ॐ प्राज्ञ्यै नमः .
ॐ प्रभायै नमः .
ॐ मदनसुंदर्यै नमः .
ॐ वागीश्वर्यै नमः .
ॐ विशालाक्ष्यै नमः .
ॐ सुमंगल्यै नमः .
ॐ काल्यै नमः .
ॐ महेश्वर्यै नमः .
ॐ चण्ड्यै नमः .
ॐ भैरव्यै नमः .
ॐ भुवनेश्वर्यै नमः .
ॐ नित्यायै नमः .
ॐ सानन्दविभवायै नमः .
ॐ सत्यज्ञानायै नमः .
ॐ तमोपहायै नमः .
ॐ महेश्वरप्रियंकर्यै नमः .
ॐ महात्रिपुरसुन्न्दर्यै नमः .
ॐ दुर्गापरमेश्वर्यै नमः .
ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
चण्डिकायै नमः . धूपमाघ्रापयामः .
ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
चण्डिकायै नमः . दीपं दर्शयामः .
ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
चण्डिकायै नमः . नैवेद्यं निवेदयामः .
नैवेद्यान्ते ध्यानं ध्यानान्ते आचमनीयं जलं समर्पयामः .
उत्तरापोऽशनार्थं हस्तप्रक्षालनार्थं
मुखप्रक्षालनार्थं च जलं समर्पयामः ..
ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
चण्डिकायै नमः . ऋतुफलानि समर्पयामः .
मध्ये आचमनीयं उत्तरापोऽशनं च जलं समर्पयामः .
ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
चण्डिकायै नमः . मुखवासार्थे ताम्बूलं समर्पयामः .
ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
चण्डिकायै नमः . दक्षिणां समर्पयामः .
ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
चण्डिकायै नमः . आरार्तिकं समर्पयामः .
आचमन वस्त्रमुपवस्त्रान्ते आचमनीयं जलं समर्पयामः .
ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
चण्डिकायै नमः . प्रदक्षिणां समर्पयामः .
ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
चण्डिकायै नमः . मन्त्रपुष्पाञ्जलिं समर्पयामः .
ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
चण्डिकायै नमः . प्रार्थनापूर्वकं नमस्कारान् समर्पयामः .
चरणामृत पान
अकालमृत्युहरणं सर्वव्याधिविनाशनम् .
विष्णुपादोदकं पीत्वा पुनर्जन्म न विद्यते ..
विसर्जन पूजा
उत्तिष्ठि देवि चण्डेशि शुभां पूजां प्रगृह्य च .
कुरुष्व मम कल्याणं अष्टिभिः शक्तिभिः सह ..
इति उत्थाप्य ..
दुर्गे देवि जगन्मातः स्वस्थानं गच्छ पूजिते .
संवत्सरे व्यतीते तु पुनरागमनाय वै ..
आराधितानां देवी तानां पुनः पूजां करिष्ये ..
ॐ श्री महाकाली महालक्ष्मी महासरस्वती देवतात्मका
चण्डिकायै नमः ..
क्षमा याचना
मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन .
यत्पूजितं अस्माभिः देव . परिपूर्णं तदस्तु नः ..
आवाहनं न जानीमः न जानीमः विसर्जनम् .
पूजां चैव न जानीमः क्षमस्व परमेश्वर ..
अन्यथा शरणं नास्ति त्वमेव शरणं नः .
तस्मात् कारुण्यभावेन रक्ष नः परमेश्वर ..
ॐ तत्सद् ब्रह्मार्पणमस्तु .
ॐ विष्णवे नमः . ॐ विष्णवे नमः . ॐ विष्णवे नमः
सर्वधर्म प्रार्थना
जिसने राग द्वेष कामादिक जीते सब जग जान लिया .
सब जीवों को मोक्ष मार्ग का निस्पृह हो उपदेश दिया .
बुद्ध . वीर . जिन . हरि . हर ब्रह्मा या उसको स्वाधीन कहो .
भक्तिभाव से प्रेरित हो यह चित्त उसी में लीन रहो .. १ ..
विषयों की आशा नहिं जिनके साम्य भाव धन रखते हैं .
निज परके हित साधन में जो निश दिन तत्पर रहते हैं .
स्वार्थ त्याग की कठिन तपस्या बिना खेद जो करते हैं .
ऐसे ज्ञानी साधु जगत के दुःख समूह को हरते हैं .. २ .
मेरी भवना
मनःपूर्वङ्गमा धर्मा मनःश्रेष्ठा मनोमया .
मनसा चेत्प्रदुष्टेन भाषते वा करोति वा .
तत एवं दुःखमन्वेति चक्रमिव वहतः पदम् .. १ .
धम्मपद १ .. १
मनःपूर्वङ्गमा धर्मा मनःश्रेष्ठा मनोमया .
मनसा चेत् प्रसन्नेन भाषते व करोति वा .
तत एवं सुखमन्वेति छायेवानपायिनी .. २ .
धम्मपद १ .. २
यं शैवा समुपासते शिव इति ब्रह्मेति वेदान्तिनो
बौद्धा बुद्ध इति प्रमाणपटवः कर्तेति नैयायिकाः .
अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमांसकाः
सोऽयं नो विदधातु वाञ्छितफलं त्रैलोक्यनाथो हरिः ..
वेदेभ्यः उपनिषदेभ्यः च मंत्राणि
वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् .
तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय .
यजु .. ३१ .. १८
ॐ ईशा वास्यमिद~म् सर्वं यत्किञ्च जगत्यां जगत् .
तेन त्यक्तेन भुञ्जिथा मा गृधः कस्यस्विद्धनम् .. १ .
ईशा .. १ .. १
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह .
आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन .
तैत्तिरीय .. २ .. ९
ॐ अभयं मित्रादभयममित्राद् अभयं ज्ञातादभयं
परोक्षात् . अभयं नक्तमभयं दिवाः नः सर्वा आशा मम
मित्रं भवन्तु ..
श्रेयश्च प्रेयश्च मनुष्यमेतस्तौ संपरीत्य विविनक्ति धीरः .
श्रेयोहि धीरोऽभिप्रेयसो वृणीते प्रेयो मन्दो योगक्षेमाद्वृणीते .
कठ् .. १ .. २ .. २
प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते . अप्रमत्तेन
वेद्धव्यं शरवत्तन्मयो भवेत् .
मुण्ड् .. २ .. २ .. ४
स्वस्ति प्रजाभ्यः परिपालयन्तां न्याय्येन मार्गेण महीं महीशाः .
गोब्राह्मणेभ्यः शुभमस्तु नित्यं लोकाः समस्ताः सुखिनो भवन्तु ..
समानो मन्त्रस्समितिस्समानी . समानं
मनस्सहचित्तमेषाम् ..
समानी व आकूतिस्समाना हृदयानि वः . समानमस्तु वो मनो
यथा वस्सुसहासति .
ऋ .. १० .. १९१ .. ३ ४ .
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः .
सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग् भवेत् ..
प्रकीर्णश्लोकाः
शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् .
प्रसन्नवदनं ध्यायेत् सर्व विघ्नोपशांतये ..
मङ्गलं भगवान् विष्णुः मङ्गलं गरुडध्वजः .
मङ्गलं पुण्डरीकाक्षो मङ्गलायतनो हरिः ..
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः .
गुरुः साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ..
अखण्डमण्डलाकारं व्याप्तं येन चराचरम् .
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ..
अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् .
हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम् ..
मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम् .
यत्कृपा तमहं वन्दे परमानन्दमाधवम् ..
वसुदेवसुतं देवं कंसचाणूरमर्दनम् .
देवकीपरमानन्दं कृष्णं वन्दे जगद् गुरुम् ..
लोकाभिरामं रणरङ्गधीरं राजीवनेत्रं रघुवंशनाथम् .
कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये ..
मनोजवं मारुत्तुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् .
वातात्मजं वानरयूथमुख्यं . श्रीरामदूतं शरणं प्रपद्ये ..
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत .
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ..
परित्राणाय साधूनां विनाशाय च दुष्कृताम् .
धर्मसंस्थापनार्थाय संभवामि युगे युगे ..
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः .
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ..
देव्यपराधक्षमापनस्तोत्रम्
न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो
न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः .
न जाने मुद्रास्ते तदपि च न जाने विलपनं
परं जाने मातस्त्वदनुसरणं क्लेशहरणम् .. १ ..
विधेरज्ञानेन द्रविणविरहेणालसतया
विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत .
तदेतत् क्षन्तव्यं जननि सकलोद्धारिणि शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति .. २ ..
पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरलाः
परं तेषां मध्ये विरलतरलोऽहं तव सुतः .
मदीयोऽयं त्यागः समुचितमिदं नो तव शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति .. ३ ..
या देवी सर्वभुतेषु शक्तिरूपेण संस्थिता .
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ..
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रान्विता .
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना .
या ब्रह्माच्युत्शङ्करप्रभृतिभिर्देवैः सदा वन्दिता .
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ..
श्रीशिवपञ्चाक्षरस्तोत्रम्
नागेन्द्रहाराय त्रिलोचनाय भस्माङ्गरागाय महेश्वराय .
नित्याय शुद्धाय दिगम्बराय तस्मै न काराय नमः शिवाय ..
त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनं .
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ..
यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैस्ततै
र्वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः .
ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो
यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः .
भागवत् १२ .. १३ .. १
न मे द्वेषरागौ न मे लोभमोहौ .
न मे वै मदो नैव मात्सर्यभावः .
न धर्मो न चार्थो न कामो न मोक्षः
चिदानन्दरूपः शिवोऽहं शिवोऽहम् .. २ .
निर्वाणषट्कम्
रामचरितमानस से
परहित सरिस धरम नहिं भाई .
पर पीडा सम नहिं अधमाई ..
सुमति कुमति सबके उर बसहिं .
नाथ पुरान निगम अस कहहिं ..
जहाँ सुमति तहँ संपति नाना .
जहाँ कुमति तहँ विपति निदाना ..
धन्य सो भूप नीति जो करई .
धन्य सो द्विज धर्म न टरई ..
धन्य धरी सोइ जब सतसंगा .
धन्य जन्म हरिभक्ति अभंगा ..
धून
हरे राम हरे राम राम राम हरे हरे .
हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे ..
भोग
श्याम रसिया मेरे मन बसिया . रुचि रुचि भोग लगाओ रसिया .
दुर्योधन की मेवा त्यागी . साग विदुर घर खायी रसिया ..
भिलनी के बेर सुदामा के तन्दुल . प्रेम से भोग लगाओ रसिया .
राधे रानी के अधरन धरि . औरहुँ सरस बनाओ रसिया ..
एसो भोग लगाओ रसिया . सब अमृत बन जाये रसिया .
जो कोई इस भोग को पावे . सोई तेरो बन जाये रसिया .
मीरा के प्रभु गिरधर नागर . आकर दरस दिखाओ रसिया ..
रसिया ओ रसिया . मेरे मन बसिया .
ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् .
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ..
श्री अंबाजीनी आरती
त्वमेव माता च पिता त्वमेव . त्वमेव बन्धुश्च सखा त्वमेव .
त्वमेव विद्या द्रविणं त्वमेव . त्वमेव सर्वं मम देवदेव ..
नीलाम्बुजश्यामलकोमलाङ्गं सीतासमारोपितवामभागम् .
पाणौ महासायकचारुचापं नमामि रामं रघुवंशनाथम् ..
कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम् .
सदा वसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि ..
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके .
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ..
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम्
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् .
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम्
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ..
कामिहि नारि पिआरि जिमि लोभिहि जिमि दाम .
तिमि रघुनाथ निरंतर प्रिय लागहु मोहि राम ..
कायेन वाचा मनसेन्द्रियैर्वा बुद्धयात्मना वा प्रकृते स्वभावात् .
करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि ..
शान्तिपाठः
ॐ द्यौः शान्तिरन्तरिक्ष~म् शान्तिः पृथिवी शान्तिरापः
शान्तिरोषधयः शान्तिः . वनस्पतयः शान्तिर्विश्वे देवाः
शान्तिर्ब्रह्म शान्तिः सर्व~म् शान्तिः शान्तिरेव शान्तिः सा
मा शान्तिरेधि .
ॐ शान्तिः शान्तिः शान्तिः .
This page uses Unicode encoding for Devanagari.
Please set the fonts and languages setting in your web browser to display the correct
Unicode devanagari font such as Mangal.ttf from Microsoft or Raghu8.ttf from the BBC site.
Questions, comments:shree@yahoo.com